मोहाय यदुचक्रस्य विततान स वैष्णवीम् उवाच चाम्ब भोस् तात चिराद् उत्कण्ठितेन तु
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च कुर्वतां याति यः कालो मातापित्रोर् अपूजनम्
स वृथा क्लेशकारी वै साधूनाम् उपजायते गुरुदेवद्विजातीनां मातापित्रोश् च पूजनम्
कुर्वतः सफलं जन्म देहिनस् तात जायते तत् क्षन्तव्यम् इदं सर्वम् अतिक्रमकृतं पितः कंसवीर्यप्रतापाभ्याम् आवयोः परवश्ययोः
इत्य् उक्त्वाथ प्रणम्योभौ यदुवृद्धान् अनुक्रमात् पादानतिभिः सस्नेहं चक्रतुः पौरमानसम्
कंसपत्न्यस् ततः कंसं परिवार्य हतं भुवि विलेपुर् मातरश् चास्य शोकदुःखपरिप्लुताः
बहुप्रकारम् अस्वस्थाः पश्चात्तापातुरा हरिः ताः समाश्वासयाम् आस स्वयम् अस्राविलेक्षणः
उग्रसेनं ततो बन्धान् मुमोच मधुसूदनः अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम्
राज्ये ऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य सः चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः
कृतोर्ध्वदैहिकं चैनं सिंहासनगतं हरिः उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया
ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि सांप्रतम् मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः
इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह नृवाचा चैव भगवान् केशवः कार्यमानुषः
गच्छेन्द्रं ब्रूहि वायो त्वम् अलं गर्वेण वासव दीयताम् उग्रसेनाय सुधर्मा भवता सभा
कृष्णो ब्रवीति राजार्हम् एतद् रत्नम् अनुत्तमम् सुधर्माख्या सभा युक्तम् अस्यां यदुभिर् आसितुम्
इत्य् उक्तः पवनो गत्वा सर्वम् आह शचीपतिम् ददौ सो ऽपि सुधर्माख्यां सभां वायोः पुरंदरः
वायुना चाहृतां दिव्यां ते सभां यदुपुंगवाः बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः
विदिताखिलविज्ञानौ सर्वज्ञानमयाव् अपि शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ
ततः सांदीपनिं काश्यम् अवन्तिपुरवासिनम् अस्त्रार्थं जग्मतुर् वीरौ बलदेवजनार्दनौ
तस्य शिष्यत्वम् अभ्येत्य गुरुवृत्तिपरौ हि तौ दर्शयां चक्रतुर् वीराव् आचारम् अखिले जने
सरहस्यं धनुर्वेदं ससंग्रहम् अधीयताम् अहोरात्रैश् चतुःषष्ट्या तद् अद्भुतम् अभूद् द्विजाः
सांदीपनिर् असंभाव्यं तयोः कर्मातिमानुषम् विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ
अस्त्रग्रामम् अशेषं च प्रोक्तमात्रम् अवाप्य तौ ऊचतुर् व्रियतां या ते दातव्या गुरुदक्षिणा
सो ऽप्य् अतीन्द्रियम् आलोक्य तयोः कर्म महामतिः अयाचत मृतं पुत्रं प्रभासे लवणार्णवे
गृहीतास्त्रौ ततस् तौ तु गत्वा तं लवणोदधिम् ऊचुतुश् च गुरोः पुत्रो दीयताम् इति सागरम्
कृताञ्जलिपुटश् चाब्धिस् ताव् अथ द्विजसत्तमाः उवाच न मया पुत्रो हृतः सांदीपनेर् इति
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् जग्राह सो ऽस्ति सलिले ममैवासुरसूदन
इत्य् उक्तो ऽन्तर् जलं गत्वा हत्वा पञ्चजनं तथा कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खम् उत्तमम्
यस्य नादेन दैत्यानां बलहानिः प्रजायते देवानां वर्धते तेजो यात्य् अधर्मश् च संक्षयम्
तं पाञ्चजन्यम् आपूर्य गत्वा यमपुरीं हरिः बलदेवश् च बलवाञ् जित्वा वैवस्वतं यमम्
तं बालं यातनासंस्थं यथापूर्वशरीरिणम् पित्रे प्रदत्तवान् कृष्णो बलश् च बलिनां वरः