भूमाव् आस्फोटयाम् आस गगने गतजीवितम् भूमाव् आस्फोटितस् तेन चाणूरः शतधा भवन्
रक्तस्रावमहापङ्कां चकार स तदा भुवम् बलदेवस् तु तत्कालं मुष्टिकेन महाबलः
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः सो ऽप्य् एनं मुष्टिना मूर्ध्नि वक्षस्य् आहत्य जानुना
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् कृष्णस् तोशलकं भूयो मल्लराजं महाबलम्
वाममुष्टिप्रहारेण पातयाम् आस भूतले चाणूरे निहते मल्ले मुष्टिके च निपातिते
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ववल्गतुस् तदा रङ्गे कृष्णसंकर्षणाव् उभौ
समानवयसो गोपान् बलाद् आकृष्य हर्षितौ कंसो ऽपि कोपरक्ताक्षः प्राहोच्चैर् व्यायतान् नरान्
गोपाव् एतौ समाजौघान् निष्क्रम्येतां बलाद् इतः नन्दो ऽपि गृह्यतां पापो निगडैर् आशु बध्यताम्
अवृद्धार्हेण दण्डेन वसुदेवो ऽपि वध्यताम् वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुनः
गावो ह्रियन्ताम् एषां च यच् चास्ति वसु किंचन एवम् आज्ञापयन्तं तं प्रहस्य मधुसूदनः
उत्पत्यारुह्य तन्मञ्चं कंसं जग्राह वेगितः केशेष्व् आकृष्य विगलत्किरीटम् अवनीतले
स कंसं पातयाम् आस तस्योपरि पपात च निःशेषजगदाधारगुरुणा पततोपरि
कृष्णेन त्याजितः प्राणान्न् उग्रसेनात्मजो नृपः मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः गौरवेणातिमहता परिपातेन कृष्यता
कृता कंसस्य देहेन वेगितेन महात्मना कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा
सुनामा बलभद्रेण लीलयैव निपातितः ततो हाहाकृतं सर्वम् आसीत् तद् रङ्गमण्डलम्
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् कृष्णो ऽपि वसुदेवस्य पादौ जग्राह सत्वरम्
देवक्याश् च महाबाहुर् बलदेवसहायवान् उत्थाप्य वसुदेवस् तु देवकी च जनार्दनम् स्मृतजन्मोक्तवचनौ ताव् एव प्रणतौ स्थितौ
प्रसीद देवदेवेश देवानां प्रवर प्रभो तथावयोः प्रसादेन कृताभ्युद्धार केशव
आराधितो यद् भगवान् अवतीर्णो गृहे मम दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम्
त्वम् अन्तः सर्वभूतानां सर्वभूतेष्व् अवस्थितः वर्तते च समस्तात्मंस् त्वत्तो भूतभविष्यती
यज्ञे त्वम् इज्यसे ऽचिन्त्य सर्वदेवमयाच्युत त्वम् एव यज्ञो यज्वा च यज्ञानां परमेश्वर
सापह्नवं मम मनो यद् एतत् त्वयि जायते देवक्याश् चात्मज प्रीत्या तद् अत्यन्तविडम्बना
त्वं कर्ता सर्वभूतानाम् अनादिनिधनो भवान् क्व च मे मानुषस्यैषा जिह्वा पुत्रेति वक्ष्यति
जगद् एतज् जगन्नाथ संभूतम् अखिलं यतः कया युक्त्या विना मायां सो ऽस्मत्तः संभविष्यति
यस्मिन् प्रतिष्ठितं सर्वं जगत् स्थावरजङ्गमम् स कोष्ठोत्सङ्गशयनो मनुष्याज् जायते कथम्
स त्वं प्रसीद परमेश्वर पाहि विश्वम् अंशावतारकरणैर् न ममासि पुत्रः आब्रह्मपादपमयं जगद् ईश सर्वं चित्ते विमोहयसि किं परमेश्वरात्मन्
मायाविमोहितदृशा तनयो ममेति कंसाद् भयं कृतवता तु मयातितीव्रम् नीतो ऽसि गोकुलम् अरातिभयाकुलस्य वृद्धिं गतो ऽसि मम चैव गवाम् अधीश
कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यानि न भवन्ति निरीक्षितानि त्वं विष्णुर् ईशजगताम् उपकारहेतोः प्राप्तो ऽसि नः परिगतः परमो विमोहः
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर् हरिः