हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्व् अनन्तरम् कृष्णो ऽयं बलभद्रो ऽयम् इति लोकस्य विस्मयात्
सो ऽयं येन हता घोरा पूतना सा निशाचरी प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ
सो ऽयं यः कालियं नागं ननर्तारुह्य बालकः धृतो गोवर्धनो येन सप्तरात्रं महागिरिः
अरिष्टो धेनुकः केशी लीलयैव महात्मना हतो येन च दुर्वृत्तो दृश्यते सो ऽयम् अच्युतः
अयं चास्य महाबाहुर् बलदेवो ऽग्रजो ऽग्रतः प्रयाति लीलया योषिन्मनोनयननन्दनः
अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः गोपालो यादवं वंशं मग्नम् अभ्युद्धरिष्यति
अयं स सर्वभूतस्य विष्णोर् अखिलजन्मनः अवतीर्णो महीम् अंशो नूनं भारहरो भुवः
इत्य् एवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् उरस् तताप देवक्याः स्नेहस्नुतपयोधरम्
महोत्सवम् इवालोक्य पुत्राव् एव विलोकयन् युवेव वसुदेवो ऽभूद् विहायाभ्यागतां जराम्
विस्तारिताक्षियुगला राजान्तःपुरयोषितः नागरस्त्रीसमूहश् च द्रष्टुं न विरराम तौ
सख्यः पश्यत कृष्णस्य मुखम् अप्य् अम्बुजेक्षणम् गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम्
विकासीव सरोम्भोजम् अवश्यायजलोक्षितम् परिभूताक्षरं जन्म सफलं क्रियतां दृशः
श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि
वल्गता मुष्टिकेनैव चाणूरेण तथा परैः क्रियते बलभद्रस्य हास्यम् ईषद् विलोक्यताम्
सख्यः पश्यत चाणूरं नियुद्धार्थम् अयं हरिः समुपैति न सन्त्य् अत्र किं वृद्धा युक्तकारिणः
क्व यौवनोन्मुखीभूतः सुकुमारतनुर् हरिः क्व वज्रकठिनाभोगशरीरो ऽयं महासुरः
इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ दैतेयमल्लाश् चाणूरप्रमुखास् त्व् अतिदारुणाः
नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः यद् बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते
इत्थं पुरस्त्रीलोकस्य वदतश् चालयन् भुवम् ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः
बलभद्रो ऽपि चास्फोट्य ववल्ग ललितं यदा पदे पदे तदा भूमिर् न शीर्णा यत् तद् अद्भुतम्
चाणूरेण ततः कृष्णो युयुधे ऽमितविक्रमः नियुद्धकुशलो दैत्यो बलदेवेन मुष्टिकः
संनिपातावधूतैश् च चाणूरेण समं हरिः क्षेपणैर् मुष्टिभिश् चैव कीलावज्रनिपातनैः
पादोद्भूतैः प्रमृष्टाभिस् तयोर् युद्धम् अभून् महत् अशस्त्रम् अतिघोरं तत् तयोर् युद्धं सुदारुणम्
स्वबलप्राणनिष्पाद्यं समाजोत्सवसंनिधौ यावद् यावच् च चाणूरो युयुधे हरिणा सह
प्राणहानिम् अवापाग्र्यां तावत् तावन् न बान्धवम् कृष्णो ऽपि युयुधे तेन लीलयैव जगन्मयः
खेदाच् चालयता कोपान् निजशेषकरे करम् बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः
वारयाम् आस तूर्याणि कंसः कोपपरायणः मृदङ्गादिषु वाद्येषु प्रतिषिद्धेषु तत्क्षणात्
खसंगतान्य् अवाद्यन्त दैवतूर्याण्य् अनेकशः जय गोविन्द चाणूरं जहि केशव दानवम्
इत्य् अन्तर्धिगता देवास् तुष्टुवुस् ते प्रहर्षिताः चाणूरेण चिरं कालं क्रीडित्वा मधुसूदनः
उत्पाट्य भ्रामयाम् आस तद्वधाय कृतोद्यमः भ्रामयित्वा शतगुणं दैत्यमल्लम् अमित्रजित्