स्थाप्यः कुवलयापीडस् तेन तौ गोपदारकौ घातनीयौ नियुद्धाय रङ्गद्वारम् उपागतौ
तम् आज्ञाप्याथ दृष्ट्वा च मञ्चान् सर्वान् उपाहृतान् आसन्नमरणः कंसः सूर्योदयम् उदैक्षत
ततः समस्तमञ्चेषु नागरः स तदा जनः राजमञ्चेषु चारूढाः सह भृत्यैर् महीभृतः
मल्लप्राश्निकवर्गश् च रङ्गमध्ये समीपगः कृतः कंसेन कंसो ऽपि तुङ्गमञ्चे व्यवस्थितः
अन्तःपुराणां मञ्चाश् च यथान्ये परिकल्पिताः अन्ये च वारमुख्यानाम् अन्ये नगरयोषिताम्
नन्दगोपादयो गोपा मञ्चेष्व् अन्येष्व् अवस्थिताः अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ
नगरीयोषितां मध्ये देवकी पुत्रगर्धिनी अन्तकाले ऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति हाहाकारपरे लोक आस्फोटयति मुष्टिके
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ प्रविष्टौ सुमहारङ्गं बलदेवजनार्दनौ
हाहाकारो महाञ् जज्ञे सर्वरङ्गेष्व् अनन्तरम् कृष्णो ऽयं बलभद्रो ऽयम् इति लोकस्य विस्मयात्
सो ऽयं येन हता घोरा पूतना सा निशाचरी प्रक्षिप्तं शकटं येन भग्नौ च यमलार्जुनौ
सो ऽयं यः कालियं नागं ननर्तारुह्य बालकः धृतो गोवर्धनो येन सप्तरात्रं महागिरिः
अरिष्टो धेनुकः केशी लीलयैव महात्मना हतो येन च दुर्वृत्तो दृश्यते सो ऽयम् अच्युतः
अयं चास्य महाबाहुर् बलदेवो ऽग्रजो ऽग्रतः प्रयाति लीलया योषिन्मनोनयननन्दनः
अयं स कथ्यते प्राज्ञैः पुराणार्थावलोकिभिः गोपालो यादवं वंशं मग्नम् अभ्युद्धरिष्यति
अयं स सर्वभूतस्य विष्णोर् अखिलजन्मनः अवतीर्णो महीम् अंशो नूनं भारहरो भुवः
इत्य् एवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् उरस् तताप देवक्याः स्नेहस्नुतपयोधरम्
महोत्सवम् इवालोक्य पुत्राव् एव विलोकयन् युवेव वसुदेवो ऽभूद् विहायाभ्यागतां जराम्
विस्तारिताक्षियुगला राजान्तःपुरयोषितः नागरस्त्रीसमूहश् च द्रष्टुं न विरराम तौ
सख्यः पश्यत कृष्णस्य मुखम् अप्य् अम्बुजेक्षणम् गजयुद्धकृतायासस्वेदाम्बुकणिकाञ्चितम्
विकासीव सरोम्भोजम् अवश्यायजलोक्षितम् परिभूताक्षरं जन्म सफलं क्रियतां दृशः
श्रीवत्साङ्कं जगद्धाम बालस्यैतद् विलोक्यताम् विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि
वल्गता मुष्टिकेनैव चाणूरेण तथा परैः क्रियते बलभद्रस्य हास्यम् ईषद् विलोक्यताम्
सख्यः पश्यत चाणूरं नियुद्धार्थम् अयं हरिः समुपैति न सन्त्य् अत्र किं वृद्धा युक्तकारिणः
क्व यौवनोन्मुखीभूतः सुकुमारतनुर् हरिः क्व वज्रकठिनाभोगशरीरो ऽयं महासुरः
इमौ सुललितौ रङ्गे वर्तेते नवयौवनौ दैतेयमल्लाश् चाणूरप्रमुखास् त्व् अतिदारुणाः
नियुद्धप्राश्निकानां तु महान् एष व्यतिक्रमः यद् बालबलिनोर् युद्धं मध्यस्थैः समुपेक्ष्यते
इत्थं पुरस्त्रीलोकस्य वदतश् चालयन् भुवम् ववर्ष हर्षोत्कर्षं च जनस्य भगवान् हरिः
बलभद्रो ऽपि चास्फोट्य ववल्ग ललितं यदा पदे पदे तदा भूमिर् न शीर्णा यत् तद् अद्भुतम्