प्रसादसुमुखौ नाथौ मम गेहम् उपागतौ धन्यो ऽहम् अर्चयिष्यामीत्य् आह तौ माल्यजीविकः
ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः चारूण्य् एतानि चैतानि प्रददौ स विलोभयन्
पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ पुष्पाणि ताभ्यां चारूणि गन्धवन्त्य् अमलानि च
मालाकाराय कृष्णो ऽपि प्रसन्नः प्रददौ वरम् श्रीस् त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति
बलहानिर् न ते सौम्य धनहानिर् अथापि वा यावद् धरणिसूर्यौ च संततिः पुत्रपौत्रिकी
भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्प्रसादतः ममानुस्मरणं प्राप्य दिव्यलोकम् अवाप्स्यसि
धर्मे मनश् च ते भद्र सर्वकालं भविष्यति युष्मत्संततिजातानां दीर्घम् आयुर् भविष्यति
नोपसर्गादिकं दोषं युष्मत्संततिसंभवः अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति
इत्य् उक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ददर्श कुब्जाम् आयान्तीं नवयौवनगोचराम्
ताम् आह ललितं कृष्णः कस्येदम् अनुलेपनम् भवत्या नीयते सत्यं वदेन्दीवरलोचने
सकामेनैव सा प्रोक्ता सानुरागा हरिं प्रति प्राह सा ललितं कुब्जा ददर्श च बलात् ततः
कान्त कस्मान् न जानासि कंसेनापि नियोजिता नैकवक्रेति विख्याताम् अनुलेपनकर्मणि
नान्यपिष्टं हि कंसस्य प्रीतये ह्य् अनुलेपनम् भवत्य् अहम् अतीवास्य प्रसादधनभाजनम्
सुगन्धम् एतद् राजार्हं रुचिरं रुचिरानने आवयोर् गात्रसदृशं दीयताम् अनुलेपनम्
श्रुत्वा तम् आह सा कृष्णं गृह्यताम् इति सादरम् अनुलेपं च प्रददौ गात्रयोग्यम् अथोभयोः
भक्तिच्छेदानुलिप्ताङ्गौ ततस् तौ पुरुषर्षभौ सेन्द्रचापौ विराजन्तौ सितकृष्णाव् इवाम्बुदौ
ततस् तां चिबुके शौरिर् उल्लापनविधानवित् उल्लाप्य तोलयाम् आस द्व्यङ्गुलेनाग्रपाणिना
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवो ऽनयत् ततः सा ऋजुतां प्राप्ता योषिताम् अभवद् वरा
विलासललितं प्राह प्रेमगर्भभरालसम् वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै
आयास्ये भवतीगेहम् इति तां प्राह केशवः विससर्ज जहासोच्चै रामस्यालोक्य चाननम्
भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बराव् उभौ धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ
अध्यास्य च धनूरत्नं ताभ्यां पृष्टैस् तु रक्षिभिः आख्यातं सहसा कृष्णो गृहीत्वापूरयद् धनुः
ततः पूरयता तेन भज्यमानं बलाद् धनुः चकारातिमहाशब्दं मथुरा तेन पूरिता
अनुयुक्तौ ततस् तौ च भग्ने धनुषि रक्षिभिः रक्षिसैन्यं निकृत्योभौ निष्क्रान्तौ कार्मुकालयात्
अक्रूरागमवृत्तान्तम् उपलभ्य तथा धनुः भग्नं श्रुत्वाथ कंसो ऽपि प्राह चाणूरमुष्टिकौ
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्य् अहम् दास्याम्य् अभिमतान् कामान् नान्यथैतन् महाबलौ
न्यायतो ऽन्यायतो वापि भवद्भ्यां तौ ममाहितौ हन्तव्यौ तद्वधाद् राज्यं सामान्यं वो भविष्यति
इत्य् आदिश्य स तौ मल्लौ ततश् चाहूय हस्तिपम् प्रोवाचोच्चैस् त्वया मत्तः समाजद्वारि कुञ्जरः