ॐ नमो वासुदेवाय नमः संकर्षणाय च प्रद्युम्नाय नमस् तुभ्यम् अनिरुद्धाय ते नमः
एवम् अन्तर् जले कृष्णम् अभिष्टूय स यादवः अर्घयाम् आस सर्वेशं धूपपुष्पैर् मनोमयैः
परित्यज्यान्यविषयं मनस् तत्र निवेश्य सः ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः
कृतकृत्यम् इवात्मानं मन्यमानो द्विजोत्तमाः आजगाम रथं भूयो निर्गम्य यमुनाम्भसः
रामकृष्णौ ददर्शाथ यथापूर्वम् अवस्थितौ विस्मिताक्षं तदाक्रूरं तं च कृष्णो ऽभ्यभाषत
किं त्वया दृष्टम् आश्चर्यम् अक्रूर यमुनाजले विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः
अन्तर् जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम्
जगद् एतन् महाश्चर्यरूपं यस्य महात्मनः तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः
तत् किम् एतेन मथुरां प्रयामो मधुसूदन बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः
इत्य् उक्त्वा चोदयाम् आस तान् हयान् वातरंहसः संप्राप्तश् चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम् विलोक्य मथुरां कृष्णं रामं चाह स यादवः
पद्भ्यां यातं महावीर्यौ रथेनैको विशाम्य् अहम् गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहे युवयोर् हि कृते वृद्धः कंसेन स निरस्यते
इत्य् उक्त्वा प्रविवेशासाव् अक्रूरो मथुरां पुरीम् प्रविष्टौ रामकृष्णौ च राजमार्गम् उपागतौ
स्त्रीभिर् नरैश् च सानन्दलोचनैर् अभिविक्षितौ जग्मतुर् लीलया वीरौ प्राप्तौ बालगजाव् इव
भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् अयाचेतां स्वरूपाणि वासांसि रुचिराणि तौ
कंसस्य रजकः सो ऽथ प्रसादारूढविस्मयः बहून्य् आक्षेपवाक्यानि प्राहोच्चै रामकेशवौ
ततस् तलप्रहारेण कृष्णस् तस्य दुरात्मनः पातयाम् आस कोपेन रजकस्य शिरो भुवि
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः कृष्णरामौ मुदायुक्तौ मालाकारगृहं गतौ
विकासिनेत्रयुगलो मालाकारो ऽतिविस्मितः एतौ कस्य कुतो यातौ मनसाचिन्तयत् ततः
पीतनीलाम्बरधरौ दृष्ट्वातिसुमनोहरौ स तर्कयाम् आस तदा भुवं देवाव् उपागतौ
विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम्
प्रसादसुमुखौ नाथौ मम गेहम् उपागतौ धन्यो ऽहम् अर्चयिष्यामीत्य् आह तौ माल्यजीविकः
ततः प्रहृष्टवदनस् तयोः पुष्पाणि कामतः चारूण्य् एतानि चैतानि प्रददौ स विलोभयन्
पुनः पुनः प्रणम्यासौ मालाकारोत्तमो ददौ पुष्पाणि ताभ्यां चारूणि गन्धवन्त्य् अमलानि च
मालाकाराय कृष्णो ऽपि प्रसन्नः प्रददौ वरम् श्रीस् त्वां मत्संश्रया भद्र न कदाचित् त्यजिष्यति
बलहानिर् न ते सौम्य धनहानिर् अथापि वा यावद् धरणिसूर्यौ च संततिः पुत्रपौत्रिकी
भुक्त्वा च विपुलान् भोगांस् त्वम् अन्ते मत्प्रसादतः ममानुस्मरणं प्राप्य दिव्यलोकम् अवाप्स्यसि
धर्मे मनश् च ते भद्र सर्वकालं भविष्यति युष्मत्संततिजातानां दीर्घम् आयुर् भविष्यति
नोपसर्गादिकं दोषं युष्मत्संततिसंभवः अवाप्स्यति महाभाग यावत् सूर्यो भविष्यति
इत्य् उक्त्वा तद्गृहात् कृष्णो बलदेवसहायवान् निर्जगाम मुनिश्रेष्ठा मालाकारेण पूजितः
राजमार्गे ततः कृष्णः सानुलेपनभाजनाम् ददर्श कुब्जाम् आयान्तीं नवयौवनगोचराम्