दधानम् असिते वस्त्रे चारुरूपावतंसकम् चारुकुण्डलिनं मत्तम् अन्तर्जलतले स्थितम्
तस्योत्सङ्गे घनश्यामम् आताम्रायतलोचनम् चतुर्बाहुम् उदाराङ्गं चक्राद्यायुधभूषणम्
पीते वसानं वसने चित्रमाल्यविभूषितम् शक्रचापतडिन्मालाविचित्रम् इव तोयदम्
श्रीवत्सवक्षसं चारुकेयूरमुकुटोज्ज्वलम् ददर्श कृष्णम् अक्लिष्टं पुण्डरीकावतंसकम्
सनन्दनाद्यैर् मुनिभिः सिद्धयोगैर् अकल्मषैः संचिन्त्यमानं मनसा नासाग्रन्यस्तलोचनैः
बलकृष्णौ तदाक्रूरः प्रत्यभिज्ञाय विस्मितः अचिन्तयद् अथो शीघ्रं कथम् अत्रागताव् इति
विवक्षोः स्तम्भयाम् आस वाचं तस्य जनार्दनः ततो निष्क्रम्य सलिलाद् रथम् अभ्यागतः पुनः
ददर्श तत्र चैवोभौ रथस्योपरि संस्थितौ रामकृष्णौ यथा पूर्वं मनुष्यवपुषान्वितौ
निमग्नश् च पुनस् तोये ददृशे स तथैव तौ संस्तूयमानौ गन्धर्वैर् मुनिसिद्धमहोरगैः
ततो विज्ञातसद्भावः स तु दानपतिस् तदा तुष्टाव सर्वविज्ञानमयम् अच्युतम् ईश्वरम्
तन्मात्ररूपिणे ऽचिन्त्यमहिम्ने परमात्मने व्यापिने नैकरूपैकस्वरूपाय नमो नमः
शब्दरूपाय ते ऽचिन्त्यहविर्भूताय ते नमः नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः
प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिर् उदीरितः
अनाख्येयस्वरूपात्मन्न् अनाख्येयप्रयोजन अनाख्येयाभिधान त्वां नतो ऽस्मि परमेश्वरम्
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः तद् ब्रह्म परमं नित्यम् अविकारि भवान् अजः
न कल्पनाम् ऋते ऽर्थस्य सर्वस्याधिगमो यतः ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिर् ईड्यसे
सर्वात्मंस् त्वम् अज विकल्पनाभिर् एतैर् देवास् त्वं जगद् अखिलं त्वम् एव विश्वम् विश्वात्मंस् त्वम् अतिविकारभेदहीनः सर्वस्मिन् नहि भवतो ऽस्ति किंचिद् अन्यत्
त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता त्वं धाता त्रिदशपतिः समीरणो ऽग्निः तोयेशो धनपतिर् अन्तकस् त्वम् एको भिन्नात्मा जगद् अपि पासि शक्तिभेदैः
विश्वं भवान् सृजति हन्ति गभस्तिरूपो विश्वं च ते गुणमयो ऽयम् अज प्रपञ्चः रूपं परं सदितिवाचकम् अक्षरं यज् ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै
ॐ नमो वासुदेवाय नमः संकर्षणाय च प्रद्युम्नाय नमस् तुभ्यम् अनिरुद्धाय ते नमः
एवम् अन्तर् जले कृष्णम् अभिष्टूय स यादवः अर्घयाम् आस सर्वेशं धूपपुष्पैर् मनोमयैः
परित्यज्यान्यविषयं मनस् तत्र निवेश्य सः ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः
कृतकृत्यम् इवात्मानं मन्यमानो द्विजोत्तमाः आजगाम रथं भूयो निर्गम्य यमुनाम्भसः
रामकृष्णौ ददर्शाथ यथापूर्वम् अवस्थितौ विस्मिताक्षं तदाक्रूरं तं च कृष्णो ऽभ्यभाषत
किं त्वया दृष्टम् आश्चर्यम् अक्रूर यमुनाजले विस्मयोत्फुल्लनयनो भवान् संलक्ष्यते यतः
अन्तर् जले यद् आश्चर्यं दृष्टं तत्र मयाच्युत तद् अत्रैव हि पश्यामि मूर्तिमत् पुरतः स्थितम्
जगद् एतन् महाश्चर्यरूपं यस्य महात्मनः तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः
तत् किम् एतेन मथुरां प्रयामो मधुसूदन बिभेमि कंसाद् धिग् जन्म परपिण्डोपजीविनः
इत्य् उक्त्वा चोदयाम् आस तान् हयान् वातरंहसः संप्राप्तश् चापि सायाह्ने सो ऽक्रूरो मथुरां पुरीम् विलोक्य मथुरां कृष्णं रामं चाह स यादवः