करिष्ये च महाभाग यद् अत्रौपायिकं मतम् विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया
अहं रामश् च मथुरां श्वो यास्यावः समं त्वया गोपवृद्धाश् च यास्यन्ति आदायोपायनं बहु
निशेयं नीयतां वीर न चिन्तां कर्तुम् अर्हसि त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम्
समादिश्य ततो गोपान् अक्रूरो ऽपि सकेशवः सुष्वाप बलभद्रश् च नन्दगोपगृहे गतः
ततः प्रभाते विमले रामकृष्णौ महाबलौ अक्रूरेण समं गन्तुम् उद्यतौ मथुरां पुरीम्
दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः निश्वसंश् चातिदुःखार्तः प्राह चेदं परस्परम्
मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति
विलासिवाक्यजातेषु नागरीणां कृतास्पदम् चित्तम् अस्य कथं ग्राम्यगोपगोपीषु यास्यति
सारं समस्तगोष्ठस्य विधिना हरता हरिम् प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना
भावगर्भस्मितं वाक्यं विलासललिता गतिः नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु
ग्राम्यो हरिर् अयं तासां विलासनिगडैर् यतः भवतीनां पुनः पार्श्वं कया युक्त्या समेष्यति
एषो हि रथम् आरुह्य मथुरां याति केशवः अक्रूरक्रूरकेणापि हताशेन प्रतारितः
किं न वेत्ति नृशंसो ऽयम् अनुरागपरं जनम् येनेमम् अक्षराह्लादं नयत्य् अन्यत्र नो हरिम्
एष रामेण सहितः प्रयात्य् अत्यन्तनिर्घृणः रथम् आरुह्य गोविन्दस् त्वर्यताम् अस्य वारणे
गुरूणाम् अग्रतो वक्तुं किं ब्रवीषि न नः क्षमम् गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना
नन्दगोपमुखा गोपा गन्तुम् एते समुद्यताः नोद्यमं कुरुते कश्चिद् गोविन्दविनिवर्तने
सुप्रभाताद्य रजनी मथुरावासियोषिताम् यासाम् अच्युतवक्त्राब्जे याति नेत्रालिभोग्यताम्
धन्यास् ते पथि ये कृष्णम् इतो यान्तम् अवारिताः उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम्
मथुरानगरीपौरनयनानां महोत्सवः गोविन्दवदनालोकाद् अतीवाद्य भविष्यति
को नु स्वप्नः सभाग्याभिर् दृष्टस् ताभिर् अधोक्षजम् विस्तारिकान्तनयना या द्रक्ष्यन्त्य् अनिवारितम्
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् उद्धृतान्य् अद्य नेत्राणि विधात्राकरुणात्मना
अनुरागेण शैथिल्यम् अस्मासु व्रजतो हरेः शैथिल्यम् उपयान्त्य् आशु करेषु वलयान्य् अपि
अक्रूरः क्रूरहृदयः शीघ्रं प्रेरयते हयान् एवम् आर्तासु योषित्सु घृणा कस्य न जायते
हे हे कृष्ण रथस्योच्चैश् चक्ररेणुर् निरीक्ष्यताम् दूरीकृतो हरिर् येन सो ऽपि रेणुर् न लक्ष्यते
इत्य् एवम् अतिहार्देन गोपीजननिरीक्षितः तत्याज व्रजभूभागं सह रामेण केशवः
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् प्राप्ता मध्याह्नसमये रामाक्रूरजनार्दनाः
अथाह कृष्णम् अक्रूरो भवद्भ्यां तावद् आस्यताम् यावत् करोमि कालिन्द्याम् आह्निकार्हणम् अम्भसि
तथेत्य् उक्ते ततः स्नातः स्वाचान्तः स महामतिः दध्यौ ब्रह्म परं विप्राः प्रविश्य यमुनाजले
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः कुन्दामलाङ्गम् उन्निद्रपद्मपत्त्रायतेक्षणम्
वृतं वासुकिडिम्भौघैर् महद्भिः पवनाशिभिः संस्तूयमानम् उद्गन्धिवनमालाविभूषितम्