सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम्
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् सान्द्रनीललताहस्तं सिताम्भोजावतंसकम्
हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः तस्यानु बलभद्रं च ददर्श यदुनन्दनम्
प्रांशुम् उत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् मेघमालापरिवृतं कैलासाद्रिम् इवापरम्
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः पुलकाञ्चितसर्वाङ्गस् तदाक्रूरो ऽभवद् द्विजाः
य एतत् परमं धाम एतत् तत् परमं पदम् अभवद् वासुदेवो ऽसौ द्विधा यो ऽयं व्यवस्थितः
साफल्यम् अक्ष्णोर् युगपन् ममास्तु दृष्टे जगद्धातरि हासम् उच्चैः अप्य् अङ्गम् एतद् भगवत्प्रसादाद् दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात्
अद्यैव स्पृष्ट्वा मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः यस्याङ्गुलिस्पर्शहताखिलाघैर् अवाप्यते सिद्धिर् अनुत्तमा नरैः
तथाश्विरुद्रेन्द्रवसुप्रणीता देवाः प्रयच्छन्ति वरं प्रहृष्टाः चक्रं घ्नता दैत्यपतेर् हृतानि दैत्याङ्गनानां नयनान्तराणि
यत्राम्बु विन्यस्य बलिर् मनोभ्याम् अवाप भोगान् वसुधातलस्थः तथामरेशस् त्रिदशाधिपत्यं मन्वन्तरं पूर्णम् अवाप शक्रः
अथेश मां कंसपरिग्रहेण दोषास्पदीभूतम् अदोषयुक्तम् कर्ता न मानोपहितं धिग् अस्तु यस्मान् मनः साधुबहिष्कृतो यः
ज्ञानात्मकस्याखिलसत्त्वराशेर् व्यावृत्तदोषस्य सदास्फुटस्य किं वा जगत्य् अत्र समस्तपुंसाम् अज्ञातम् अस्यास्ति हृदि स्थितस्य
तस्माद् अहं भक्तिविनम्रगात्रो व्रजामि विश्वेश्वरम् ईश्वराणाम् अंशावतारं पुरुषोत्तमस्य अनादिमध्यान्तम् अजस्य विष्णोः
चिन्तयन्न् इति गोविन्दम् उपगम्य स यादवः अक्रूरो ऽस्मीति चरणौ ननाम शिरसा हरेः
सो ऽप्य् एनं ध्वजवज्राब्जकृतचिह्नेन पाणिना संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे
कृतसंवदनौ तेन यथावद् बलकेशवौ ततः प्रविष्टौ सहसा तम् आदायात्ममन्दिरम्
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः भुक्तभोज्यो यथान्यायम् आचचक्षे ततस् तयोः
यथा निर्भर्त्सितस् तेन कंसेनानकदुन्दुभिः यथा च देवकी देवी दानवेन दुरात्मना
उग्रसेने यथा कंसः स दुरात्मा च वर्तते यं चैवार्थं समुद्दिश्य कंसेन स विसर्जितः
तत् सर्वं विस्तराच् छ्रुत्वा भगवान् केशिसूदनः उवाचाखिलम् एतत् तु ज्ञातं दानपते मया
करिष्ये च महाभाग यद् अत्रौपायिकं मतम् विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया
अहं रामश् च मथुरां श्वो यास्यावः समं त्वया गोपवृद्धाश् च यास्यन्ति आदायोपायनं बहु
निशेयं नीयतां वीर न चिन्तां कर्तुम् अर्हसि त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम्
समादिश्य ततो गोपान् अक्रूरो ऽपि सकेशवः सुष्वाप बलभद्रश् च नन्दगोपगृहे गतः
ततः प्रभाते विमले रामकृष्णौ महाबलौ अक्रूरेण समं गन्तुम् उद्यतौ मथुरां पुरीम्
दृष्ट्वा गोपीजनः सास्रः श्लथद्वलयबाहुकः निश्वसंश् चातिदुःखार्तः प्राह चेदं परस्परम्
मथुरां प्राप्य गोविन्दः कथं गोकुलम् एष्यति नागरस्त्रीकलालापमधु श्रोत्रेण पास्यति
विलासिवाक्यजातेषु नागरीणां कृतास्पदम् चित्तम् अस्य कथं ग्राम्यगोपगोपीषु यास्यति
सारं समस्तगोष्ठस्य विधिना हरता हरिम् प्रहृतं गोपयोषित्सु निघृणेन दुरात्मना
भावगर्भस्मितं वाक्यं विलासललिता गतिः नागरीणाम् अतीवैतत् कटाक्षेक्षितम् एव तु