आययौ त्वरितो विप्रो नारदो जलदस्थितः केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः
साधु साधु जगन्नाथ लीलयैव यद् अच्युत निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम्
सुकर्माण्य् अवतारे तु कृतानि मधुसूदन यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम्
तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि
स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन
उग्रसेनसुते कंसे सानुगे विनिपातिते भारावतारकर्ता त्वं पृथिव्या धरणीधर
तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन
सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
नारदे तु गते कृष्णः सह गोपैर् अविस्मितः विवेश गोकुलं गोपीनेत्रपानैकभाजनम्
अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले
चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः
अद्य मे सफलं जन्म सुप्रभाता च मे निशा यद् उन्निद्राब्जपत्त्राक्षं विष्णोर् द्रक्ष्याम्य् अहम् मुखम्
पापं हरति यत् पुंसां स्मृतं संकल्पनामयम् तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम्
निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम्
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः इज्यते यो ऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम्
इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम् अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम्
न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः यस्य स्वरूपं जानन्ति स्पृशत्य् अद्य स मे हरिः
सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः यो भवत्य् अव्ययो व्यापी स वीक्ष्यते मयाद्य ह
मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् चकार योगतो योगं स माम् आलापयिष्यति
सांप्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः
यो ऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् सो ऽवतीर्णो जगत्यर्थे माम् अक्रूरेति वक्ष्यति
पितृबन्धुसुहृद्भ्रातृमातृबन्धुमयीम् इमाम् यन्मायां नालम् उद्धर्तुं जगत् तस्मै नमो नमः
तरन्त्य् अविद्यां विततां हृदि यस्मिन् निवेशिते योगमायाम् इमां मर्त्यास् तस्मै विद्यात्मने नमः
यज्वभिर् यज्ञपुरुषो वासुदेवश् च शाश्वतैः वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम्
तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् सदसत्त्वं स सत्त्वेन मय्य् असौ यातु सौम्यताम्
स्मृते सकलकल्याणभाजनं यत्र जायते पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम्
इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः अक्रूरो गोकुलं प्राप्तः किंचित् सूर्ये विराजति
स ददर्श तदा तत्र कृष्णम् आदोहने गवाम् वत्समध्यगतं फुल्लनीलोत्पलदलच्छविम्
प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् प्रलम्बबाहुम् आयामतुङ्गोरस्थलम् उन्नसम्