इत्य् उक्त्वा स तु गोविन्दः केशिनः संमुखं ययौ विवृतास्यश् च सो ऽप्य् एनं दैतेयश् च उपाद्रवत्
बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः
केशिनो वदनं तेन विशता कृष्णबाहुना शातिता दशनास् तस्य सिताभ्रावयवा इव
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः विनाशाय यथा व्याधिर् आप्तभूतैर् उपेक्षितः
विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने
जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सो ऽभवत् ततः
व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः
द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके केशिनस् ते द्विधा भूते शकले च विरेजतुः
हत्वा तु केशिनं कृष्णो मुदितैर् गोपकैर् वृतः अनायस्ततनुः स्वस्थो हसंस् तत्रैव संस्थितः
ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम्
आययौ त्वरितो विप्रो नारदो जलदस्थितः केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः
साधु साधु जगन्नाथ लीलयैव यद् अच्युत निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम्
सुकर्माण्य् अवतारे तु कृतानि मधुसूदन यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम्
तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि
स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन
उग्रसेनसुते कंसे सानुगे विनिपातिते भारावतारकर्ता त्वं पृथिव्या धरणीधर
तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन
सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
नारदे तु गते कृष्णः सह गोपैर् अविस्मितः विवेश गोकुलं गोपीनेत्रपानैकभाजनम्
अक्रूरो ऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना कृष्णसंदर्शनासक्तः प्रययौ नन्दगोकुले
चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया यो ऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः
अद्य मे सफलं जन्म सुप्रभाता च मे निशा यद् उन्निद्राब्जपत्त्राक्षं विष्णोर् द्रक्ष्याम्य् अहम् मुखम्
पापं हरति यत् पुंसां स्मृतं संकल्पनामयम् तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम्
निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम्
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः इज्यते यो ऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम्
इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम् अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम्
न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः यस्य स्वरूपं जानन्ति स्पृशत्य् अद्य स मे हरिः
सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः यो भवत्य् अव्ययो व्यापी स वीक्ष्यते मयाद्य ह
मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् चकार योगतो योगं स माम् आलापयिष्यति