महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी पतिव्रता महाभागा कुलजा मुनिसत्तमाः
सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्
हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना अग्निहोत्रकुशेष्व् एव सुष्वाप मुनिसत्तमाः
धूमिन्या स तया देव्या त्व् अजमीढः समीयिवान् ऋक्षं संजनयाम् आस धूम्रवर्णं सुदर्शनम्
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह
पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम् तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः
कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः
परीक्षितस् तु दायादो धार्मिको जनमेजयः श्रुतसेनो ऽग्रसेनश् च भीमसेनश् च नामतः
एते सर्वे महाभागा विक्रान्ता बलशालिनः जनमेजयस्य पुत्रस् तु सुरथो मतिमांस् तथा
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः विदूरथस्य दायाद ऋक्ष एव महारथः
द्वितीयस् तु भरद्वाजान् नाम्ना तेनैव विश्रुतः द्वाव् ऋक्षौ सोमवंशे ऽस्मिन् द्वाव् एव च परीक्षितौ
भीमसेनास् त्रयो विप्रा द्वौ चापि जनमेजयौ ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत् सुतः
प्रतीपो भीमसेनात् तु प्रतीपस्य तु शांतनुः देवापिर् बाह्लिकश् चैव त्रय एव महारथाः
शांतनोस् त्व् अभवद् भीष्मस् तस्मिन् वंशे द्विजोत्तमाः बाह्लिकस्य तु राजर्षेर् वंशं शृणुत भो द्विजाः
बाह्लिकस्य सुतश् चैव सोमदत्तो महायशाः जज्ञिरे सोमदत्तात् तु भूरिर् भूरिश्रवाः शलः
उपाध्यायस् तु देवानां देवापिर् अभवन् मुनिः च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः
शांतनुस् त्व् अभवद् राजा कौरवाणां धुरंधरः शांतनोः संप्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम्
गाङ्गं देवव्रतं नाम पुत्रं सो ऽजनयत् प्रभुः स तु भीष्म इति ख्यातः पाण्डवानां पितामहः
काली विचित्रवीर्यं तु जनयाम् आस भो द्विजाः शांतनोर् दयितं पुत्रं धर्मात्मानम् अकल्मषम्
कृष्णद्वैपायनाच् चैव क्षेत्रे वैचित्रवीर्यके धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत्
धृतराष्ट्रस् तु गान्धार्यां पुत्रान् उत्पादयच् छतम् तेषां दुर्योधनः श्रेष्ठः सर्वेषाम् अपि स प्रभुः
पाण्डोर् धनंजयः पुत्रः सौभद्रस् तस्य चात्मजः अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह
पारीक्षितस्य काश्यायां द्वौ पुत्रौ संबभूवतुः चन्द्रापीडस् तु नृपतिः सूर्यापीडश् च मोक्षवित्
चन्द्रापीडस्य पुत्राणां शतम् उत्तमधन्विनाम् जानमेजयम् इत्य् एवं क्षात्रं भुवि परिश्रुतम्
तेषां ज्येष्ठस् तु तत्रासीत् पुरे वारणसाह्वये सत्यकर्णो महाबाहुर् यज्वा विपुलदक्षिणः
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम्
तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत सुचारोर् दुहिता सुभ्रूर् मालिनी ग्राहमालिनी
संभूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः अन्वगच्छत् कृतं पूर्वं महाप्रस्थानम् अच्युतम्
सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो ऽन्वगात् सुचारोर् दुहिता साध्वी वने राजीवलोचना
पथि सा सुषुवे बाला सुकुमारं कुमारकम् तम् अपास्याथ तत्रैव राजानं सान्वगच्छत