यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके आजग्मुस् तत्र मुनयस् तथान्ये ऽपि द्विजातयः
तान् आगतान् द्विजांस् ते तु पूजां चक्रुर् यथोचिताम् तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च
तत्राजगाम सूतस् तु मतिमांल् लोमहर्षणः तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर् मुदान्विताः
सो ऽपि तान् प्रतिपूज्यैव संविवेश वरासने कथां चक्रुस् तदान्योन्यं सूतेन सहिता द्विजाः
कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः
पुराणागमशास्त्राणि सेतिहासानि सत्तम जानासि देवदैत्यानां चरितं जन्म कर्म च
न ते ऽस्त्य् अविदितं किंचिद् वेदे शास्त्रे च भारते पुराणे मोक्षशास्त्रे च सर्वज्ञो ऽसि महामते
यथापूर्वम् इदं सर्वम् उत्पन्नं सचराचरम् ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
श्रोतुम् इच्छामहे सूत ब्रूहि सर्वं यथा जगत् बभूव भूयश् च यथा महाभाग भविष्यति
यतश् चैव जगत् सूत यतश् चैव चराचरम् लीनम् आसीत् तथा यत्र लयम् एष्यति यत्र च
अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
नमो हिरण्यगर्भाय हरये शङ्कराय च वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशाय जगतो यो ऽजरामरः मूलभूतो नमस् तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् सर्वज्ञं जगताम् ईशम् अजम् अक्षयम् अव्ययम्
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्
सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसंमितम्
कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः
शृणुध्वं संप्रवक्ष्यामि कथां पापप्रणाशिनीम् कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम्
यस् त्व् इमां धारयेन् नित्यं शृणुयाद् वाप्य् अभीक्ष्णशः स्ववंशधारणं कृत्वा स्वर्गलोके महीयते
अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् प्रधानं पुरुषस् तस्मान् निर्ममे विश्वम् ईश्वरः
तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणम् अमितौजसम् स्रष्टारं सर्वभूतानां नारायणपरायणम्
अहंकारस् तु महतस् तस्माद् भूतानि जज्ञिरे भूतभेदाश् च भूतेभ्य इति सर्गः सनातनः
विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम्
कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् ततः स्वयंभूर् भगवान् सिसृक्षुर् विविधाः प्रजाः
अप एव ससर्जादौ तासु वीर्यम् अथासृजत् आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः हिरण्यवर्णम् अभवत् तद् अण्डम् उदकेशयम्
तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूर् इति नः श्रुतम् हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम्