यस्मात् सर्वम् इदं प्रपञ्चरचितं मायाजगज् जायते यस्मिंस् तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं तं वन्दे पुरुषोत्तमाख्यम् अमलं नित्यं विभुं निश्चलम्
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् नित्यानन्दमयं प्रसन्नम् अमलं सर्वेश्वरं निर्गुणम् व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् तं संसारविनाशहेतुम् अजरं वन्दे हरिं मुक्तिदम्
सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे नानामुनिजनाकीर्णे नानापुष्पोपशोभिते
सरलैः कर्णिकारैश् च पनसैर् धवखादिरैः आम्रजम्बूकपित्थैश् च न्यग्रोधैर् देवदारुभिः
अश्वत्थैः पारिजातैश् च चन्दनागुरुपाटलैः बकुलैः सप्तपर्णैश् च पुंनागैर् नागकेसरैः
शालैस् तालैस् तमालैश् च नारिकेलैस् तथार्जुनैः अन्यैश् च बहुभिर् वृक्षैश् चम्पकाद्यैश् च शोभिते
नानापक्षिगणाकीर्णे नानामृगगणैर् युते नानाजलाशयैः पुण्यैर् दीर्घिकाद्यैर् अलंकृते
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः
संपन्नैर् गोकुलैश् चैव सर्वत्र समलंकृते यवगोधूमचणकैर् माषमुद्गतिलेक्षुभिः
चीनकाद्यैस् तथा मेध्यैः सस्यैश् चान्यैश् च शोभिते तत्र दीप्ते हुतवहे हूयमाने महामखे
यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके आजग्मुस् तत्र मुनयस् तथान्ये ऽपि द्विजातयः
तान् आगतान् द्विजांस् ते तु पूजां चक्रुर् यथोचिताम् तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च
तत्राजगाम सूतस् तु मतिमांल् लोमहर्षणः तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर् मुदान्विताः
सो ऽपि तान् प्रतिपूज्यैव संविवेश वरासने कथां चक्रुस् तदान्योन्यं सूतेन सहिता द्विजाः
कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः
पुराणागमशास्त्राणि सेतिहासानि सत्तम जानासि देवदैत्यानां चरितं जन्म कर्म च
न ते ऽस्त्य् अविदितं किंचिद् वेदे शास्त्रे च भारते पुराणे मोक्षशास्त्रे च सर्वज्ञो ऽसि महामते
यथापूर्वम् इदं सर्वम् उत्पन्नं सचराचरम् ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
श्रोतुम् इच्छामहे सूत ब्रूहि सर्वं यथा जगत् बभूव भूयश् च यथा महाभाग भविष्यति
यतश् चैव जगत् सूत यतश् चैव चराचरम् लीनम् आसीत् तथा यत्र लयम् एष्यति यत्र च
अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
नमो हिरण्यगर्भाय हरये शङ्कराय च वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशाय जगतो यो ऽजरामरः मूलभूतो नमस् तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् सर्वज्ञं जगताम् ईशम् अजम् अक्षयम् अव्ययम्
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्
सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसंमितम्
कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः