नीली च केशिनी चैव धूमिनी च वराङ्गनाः अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्
Nīlī, Keśinī, and Dhūminī, all excellent women; from Keśinī, Ājamīḍha begot Jahnu, a man of great prowess.
आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् पतिलोभेन यं गङ्गा विनीतेव ससार ह
He performed the great sacrifice, the Sarvamedha, as lord; out of desire for her husband, Gaṅgā, subdued, departed from him.
नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
Though he did not wish it, Gaṅgā flooded his sacrificial hall; seeing the entire altar inundated by her,
जह्नुर् अप्य् अब्रवीद् गङ्गां क्रुद्धो विप्रास् तदा नृपः एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्य् अहम् अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि
Jahnu, angered, addressed Gaṅgā, O king, and said: 'I shall drink up your waters from all three worlds; Gaṅgā, receive at once the fruit of your arrogance.'
ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः उपनिन्युर् महाभागा दुहितृत्वेन जाह्नवीम्
When the great sages saw that Gaṅgā had been drunk, they, most fortunate, brought her forth as a daughter, calling her Jāhnavī.
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम्
Jahnu took Kāverī, the daughter of Yuvanāśva; by Gaṅgā's curse, half her body was later made into a river.
जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान् अजकस्य तु दायादो बलाकाश्वो महीपतिः
Jahnu's beloved son was named Ajaka, mighty; Ajaka's heir was Balākāśva, lord of the earth.
बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः पह्नवैः सह संवृद्धो राजा वनचरैः सह
Kuśika, fond of hunting, was his son; the king grew up among the Pahnava people and forest-dwellers.
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुम् लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान्
Kuśika performed austerities, desiring a son equal to Indra; then Śakra, out of fear, approached and was born as his son.
स गाधिर् अभवद् राजा मघवा कौशिकः स्वयम् विश्वामित्रस् तु गाधेयो विश्वामित्रात् तथाष्टकः
He became King Gādhi; Maghavān himself was born as a Kauśika. Viśvāmitra was Gādhi's son, and from Viśvāmitra came Aṣṭaka.
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया आजमीढो ऽपरो वंशः श्रूयतां मुनिसत्तमाः
Lauhi, the son of Ashtaka, has been mentioned by me as belonging to the Jahnu lineage; now, O best of sages, listen to another line, that of Ajamīḍha.
अजमीढात् तु नील्यां वै सुशान्तिर् उदपद्यत पुरुजातिः सुशान्तेश् च बाह्याश्वः पुरुजातितः
From Ajamīḍha, through Nīlī, was born Suśānti; from Suśānti came Purujāti, and from Purujāti, Bāhyāśva was born.
बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः मुद्गलः सृञ्जयश् चैव राजा बृहदिषुस् तदा
The five sons of Bāhyāśva, renowned and prosperous, filled the regions: Mudgala, Sṛñjaya, King Bṛhadiṣu,
यवीनरश् च विक्रान्तः कृमिलाश्वश् च पञ्चमः पञ्चैते रक्षणायालं देशानाम् इति विश्रुताः
Yavīnara, the valiant, and Kṛmilāśva as the fifth; these five are famed as protectors, sufficient for the safeguarding of the lands.
पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः
These five are known as the Pañcālas, prosperous and filling the regions, well able to protect their domains, and thus called Pañcālas.
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत
Mudgala's heir was the illustrious Maudgalya; from Indrasenā he received the womb and the son named Vadhnya.
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः
Pañcajana was the son of the great-souled Sṛñjaya; and Pañcajana's own son was the king Somadatta.
सोमदत्तस्य दायादः सहदेवो महायशाः सहदेवसुतश् चापि सोमको नाम विश्रुतः
Somadatta's heir was the renowned Sahadeva; and Sahadeva's son was the famous Somaka.
अजमीढसुतो जातः क्षीणे वंशे तु सोमकः सोमकस्य सुतो जन्तुर् यस्य पुत्रशतं बभौ
When the line was diminished, Somaka was born as the son of Ajamīḍha; Somaka's son was Jantu, who had a hundred sons.
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः आजमीढाः स्मृताश् चैते महात्मानस् तु सोमकाः
Of them, the youngest was Pṛṣata, the lord and father of Drupada; these great-souled Somakas are remembered as descendants of Ajamīḍha.
महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी पतिव्रता महाभागा कुलजा मुनिसत्तमाः
Ajamīḍha's chief queen was Dhūminī, eager for sons, devoted to her husband, highly fortunate, and born of a noble family, O best of sages.
सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्
That goddess, longing for a son and devoted to vows, performed severe austerities for ten thousand years.
हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना अग्निहोत्रकुशेष्व् एव सुष्वाप मुनिसत्तमाः
She offered the sacred fire according to rite, lived on moderate food, and slept upon kusa grass at the fire altar, O best of sages, remaining pure.
धूमिन्या स तया देव्या त्व् अजमीढः समीयिवान् ऋक्षं संजनयाम् आस धूम्रवर्णं सुदर्शनम्
With that goddess Dhūminī, Ajamīḍha united and begot Ṛkṣa, who was of dusky hue and handsome appearance.
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह
From Ṛkṣa was born Saṃvaraṇa, and from Saṃvaraṇa, Kuru; he, crossing Prayāga, established Kurukṣetra.
पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम् तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः
That land, sacred and delightful, frequented by the righteous, produced a great lineage, known by his name as the Kauravas.
कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः
Kuru had four sons: Sudhanvan, Sudhanus, Parīkṣit the mighty-armed, and the eminent Arimejaya.
परीक्षितस् तु दायादो धार्मिको जनमेजयः श्रुतसेनो ऽग्रसेनश् च भीमसेनश् च नामतः
Parīkṣit's heir was the righteous Janamejaya; and Janamejaya's sons were Śrutasena, Agrasena, and Bhīmasena by name.
एते सर्वे महाभागा विक्रान्ता बलशालिनः जनमेजयस्य पुत्रस् तु सुरथो मतिमांस् तथा
All these were greatly fortunate, valiant, and mighty; and Janamejaya’s son was Suratha, wise as well.
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः विदूरथस्य दायाद ऋक्ष एव महारथः
Suratha’s powerful son was born as Viduratha; and Viduratha’s heir was Ṛkṣa, a great chariot-warrior.