समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ते यदा तु स्वसंमूढा रागोन्मत्ता विधर्मिणः
When, confused in their own minds, intoxicated by passion, and unrighteous, they entered the heavenly realm, the world of the gods, in many ways,
ब्रह्मद्विषश् च संवृत्ता हतवीर्यपराक्रमाः ततो लेभे स्वम् ऐश्वर्यम् इन्द्रः स्थानं तथोत्तमम्
Having become haters of Brahman, their strength and valor destroyed, then Indra regained his own sovereignty and his supreme position.
हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः शृणुयाद् धारयेद् वापि न स दौर्गत्यम् आप्नुयात्
Having slain all the sons of Rajas, who were devoted to desire and anger, whoever hears or recites this account of Śatakratu's restoration from displacement does not attain misfortune.
रम्भो ऽनपत्यस् त्व् आसीच् च वंशं वक्ष्याम्य् अनेनसः अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः
Rambha was childless; I will now recount the lineage of Anenasa. The son of Anenasa was the renowned king Pratikṣatra.
प्रतिक्षत्रसुतश् चासीत् संजयो नाम विश्रुतः संजयस्य जयः पुत्रो विजयस् तस्य चात्मजः
Pratikṣatra's son was the famous Saṃjaya; Saṃjaya's son was Jaya, and Jaya's son was Vijaya.
विजयस्य कृतिः पुत्रस् तस्य हर्यत्वतः सुतः हर्यत्वतसुतो राजा सहदेवः प्रतापवान्
Vijaya's son was Kṛti, and Kṛti's son was Haryatvata; Haryatvata's son was the mighty king Sahadeva.
सहदेवस्य धर्मात्मा नदीन इति विश्रुतः नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः
Sahadeva's son was the righteous Nadīna, well-known; Nadīna's son was Jayatsena, and Jayatsena's son was Saṃkṛti.
संकृतेर् अपि धर्मात्मा क्षत्रवृद्धो महायशाः अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः
Saṃkṛti's son was the righteous and renowned Kṣatravṛddha; these are the descendants of Anenasa, and another of Kṣatravṛddha.
क्षत्रवृद्धात्मजस् तत्र सुनहोत्रो महायशाः सुनहोत्रस्य दायादास् त्रयः परमधार्मिकाः
Kṣatravṛddha's son there was Sunahotra, of great fame; Sunahotra had three heirs, all supremely righteous.
काशः शलश् च द्वाव् एतौ तथा गृत्समदः प्रभुः पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः
Kāśa and Śala were two of them, and also Gṛtsamada, the illustrious; Gṛtsamada's son was Śunaka, whose son was Śaunaka.
ब्राह्मणाः क्षत्रियाश् चैव वैश्याः शूद्रास् तथैव च शलात्मज आर्ष्टिसेणस् तनयस् तस्य काश्यपः
Brahmins, Kṣatriyas, Vaiśyas, and Śūdras likewise; Śala's son was Ārṣṭiseṇa, whose son was Kāśyapa.
काशस्य काशिपो राजा पुत्रो दीर्घतपास् तथा धनुस् तु दीर्घतपसो विद्वान् धन्वन्तरिस् ततः
Kāśa's son was the king Kāśipa, whose son was Dīrghatapas; Dīrghatapas's wise son was Dhanvantari.
तपसो ऽन्ते सुमहतो जातो वृद्धस्य धीमतः पुनर् धन्वन्तरिर् देवो मानुषेष्व् इह जन्मनि
At the end of his great austerity, Dhanvantari was born again as the wise Vṛddha; Dhanvantari became a god, incarnated among humans here.
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस् तदा काशिराजो महाराजः सर्वरोगप्रणाशनः
In his house was born the god Dhanvantari; then the great king of Kāśi, destroyer of all diseases.
आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः तम् अष्टधा पुनर् व्यस्य शिष्येभ्यः प्रत्यपादयत्
Having obtained the science of Ayurveda from Bharadvāja, he became a physician here; he divided it into eight parts and imparted it to his disciples.
धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः
Dhanvantari's son was Ketumān, well-known; Ketumān's son was the heroic Bhīmaratha.
पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः दिवोदासस् तु धर्मात्मा वाराणस्यधिपो ऽभवत्
Bhīmaratha's son was Divodāsa, lord of subjects; Divodāsa, righteous in soul, became ruler of Vārāṇasī.
एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः
At that very time, a rakṣasa named Kṣemaka settled the city of Vārāṇasī, which was empty of twice-born men.
शप्ता हि सा मतिमता निकुम्भेन महात्मना शून्या वर्षसहस्रं वै भवित्री तु न संशयः
She was cursed by the wise and great Nikumbha, and for a thousand years she would remain empty; of this there is no doubt.
तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्
At the very moment of that curse, Divodāsa, lord of people, established a beautiful city at the edge of his domain, on the Gomati.
भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत् भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनाम्
Previously, Vārāṇasī was the city of Bhadraśreṇya; it belonged to the hundred sons of Bhadraśreṇya, all excellent archers.
हत्वा निवेशयाम् आस दिवोदासो नराधिपः भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा
Having slain them, King Divodāsa settled there; he seized the kingdom of Bhadraśreṇya by his superior strength.
भद्रश्रेण्यस्य पुत्रस् तु दुर्दमो नाम विश्रुतः दिवोदासेन बालेति घृणया स विसर्जितः
Bhadraśreṇya's son, renowned as Durdama, was driven away by Divodāsa, out of compassion, while still a child.
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्
The king took the inheritance of the Haihayas; he forcibly claimed the ancestral domain that Divodāsa had seized.
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना वैरस्यान्तो महाभागाः कृतश् चात्मीयतेजसा
By the great-souled Durdama, son of Bhadraśreṇya, the enmity was ended, O illustrious ones, through his own power.
दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः तेन बालेन पुत्रेण प्रहृतं तु पुनर् बलम्
From Divodāsa, in Dṛṣadvatī, a hero was born named Pratardana; by this young son, the strength was again challenged.
प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ वत्सपुत्रो ह्य् अलर्कस् तु संनतिस् तस्य चात्मजः
Pratardana had two sons, Vatsabharga and Vatsa, both widely renowned; Vatsa's son was Alarka, and Saṃnati was his own son.
अलर्कस् तस्य पुत्रस् तु ब्रह्मण्यः सत्यसंगरः अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः
Alarka, his son, was devoted to Brahman and steadfast in truth; regarding Alarka the royal sage, an ancient verse was sung.
षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च युवा रूपेण संपन्नः प्राग् आसीच् च कुलोद्वहः
For sixty thousand years and sixty hundred years, he remained youthful in appearance, and was the foremost of his lineage.
लोपामुद्राप्रसादेन परमायुर् अवाप्तवान् तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः
By the grace of Lopāmudrā, he attained supreme longevity; his kingdom was vast, and he possessed beauty and youth.