उपांशुना वर्तितव्यं सोमक्रयण एव हि ततो ऽभवद् देवतानां सोमश् चापि सरस्वती
It must be conducted quietly, especially in the buying of Soma; thus Soma and Sarasvatī came to belong to the gods.
गन्धर्वाणां नैव सोमो नैवासीच् च सरस्वती तत्रागमन् सर्व एव सोमार्थं गौतमीतटम्
Neither Soma nor Sarasvatī remained with the Gandharvas; then all of them came to the bank of the Gautamī for the sake of Soma.
गावो देवाः पर्वता यक्षरक्षाः सिद्धाः साध्या मुनयो गुह्यकाश् गन्धर्वास् ते मरुतः पन्नगाश् सर्वौषध्यो मातरो लोकपालाः
Cows, gods, mountains, Yakṣas, Rākṣasas, Siddhas, Sādhyas, sages, Guhyakas, Gandharvas, Maruts, serpents, all herbs, mothers, and guardians of the worlds—
पञ्चविंशतिनद्यस् तु गङ्गायां संगता मुने पूर्णाहुतिर् यत्र दत्ता पूर्णाख्यानं तद् उच्यते
O sage, twenty-five rivers gathered in the Gaṅgā there, where the full offering is given; that is called the place of the complete narration.
गौतम्यां संगता यास् तु सर्वाश् चापि यथोदिताः तन्नामधेयतीर्थानि संक्षेपाच् छृणु नारद
All those that have gathered in the Gautamī, as previously mentioned, listen in brief, O Nārada, to the names of those sacred fords.
सोमतीर्थं च गान्धर्वं देवतीर्थम् अतः परम् पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा
Somatīrtha, Gāndharva, Devatīrtha, then Pūrṇatīrtha, after that Śāla, and the confluence with Śrīparṇā—
स्वागतासंगमं पुण्यं कुसुमायाश् च संगमम् पुष्टिसंगमम् आख्यातं कर्णिकासंगमं शुभम्
The sacred confluence called Svāgatā, the meeting with Kusumā, the confluence of Puṣṭi, the auspicious confluence with Karṇikā—
वैणवीसंगमश् चैव कृशरासंगमस् तथा वासवीसंगमश् चैव शिवशर्या तथा शिखी
The confluence with Vaiṇavī, likewise with Kṛśarā, the confluence with Vāsavī, and also Śivaśaryā and Śikhī—
कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः
Kusumbhikā, Upārathyā, Śāntijā, Devajā, then Aja, Vṛddha, Sura, and Bhadra—all these joined with the Gautamī.
एते चान्ये च बहवो नदीनदसहायगाः पृथिव्यां यानि तीर्थानि ह्य् अगमन् देवपर्वते
These and many others, accompanied by streams and rivers, all the sacred fords on earth, came to the mountain of the gods.
सोमार्थं वै तथा चान्ये ऽप्य् आगमन् मखमण्डपम् तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम्
For the sake of Soma, and others as well, they came to the sacrificial pavilion; those sacred fords gathered in the Gaṅgā in due order.
नदीरूपेण कान्य् एव नदरूपेण कानिचित् सरोरूपेण कान्य् अत्र स्तवरूपेण कानिचित्
Some appeared in the form of rivers, some in the form of streams, some as lakes, and some in the form of hymns.
तान्य् एव सर्वतीर्थानि विख्यातानि पृथक् पृथक् तेषु स्नानं जपो होमः पितृतर्पणम् एव च
All those are renowned as distinct sacred fords; in them, bathing, recitation, oblation, and offerings to ancestors are performed.
सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् एतेषां पठनं चापि स्मरणं वा करोति यः सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः
They grant all desires to people, bestow enjoyment, and are vessels of liberation; whoever recites or remembers them becomes freed from all sins and attains the city of Viṣṇu.
प्रवरासंगमो नाम श्रेष्ठा चैव महानदी यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत्
There is a place called Pravarāsaṃgama, where the greatest river flows, and where the god Siddheśvara, benefactor of all worlds, resides.
देवानां दानवानां च संगमो ऽभूत् सुदारुणः तेषां परस्परं वापि प्रीतिश् चाभून् महामुने
There occurred a fierce encounter between the gods and the demons; yet, O great sage, there was also mutual affection among them.
ते ऽप्य् एवं मन्त्रयाम् आसुर् देवा वै दानवा मिथः मेरुपर्वतम् आसाद्य परस्परहितैषिणः
Thus, the gods and demons, seeking each other's welfare, consulted together upon reaching Mount Meru.
अमृतेनामरत्वं स्याद् उत्पाद्यामृतम् उत्तमम् पिबामः सर्व एवैते भवामश् चामरा वयम्
By producing nectar, we shall attain immortality; let us all drink this supreme nectar and become deathless.
एकीभूत्वा वयं लोकान् पालयामः सुखानि च प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम्
United, we shall protect the worlds and attain happiness, abandoning conflict, for conflict is the cause of suffering.
प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः यतः स्नेहेन वृत्तिर् या सास्माकं सुखदा सदा
Freed from envy, we shall enjoy the wealth gained through friendship, for the conduct rooted in affection always brings happiness to us.
वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन न च त्रैलोक्यराज्ये ऽपि कैवल्ये वा सुखं मनाक् तद् ऊर्ध्वम् अपि वा यत् तु निर्वैरत्वाद् अवाप्यते
Whatever hostility occurred in the past should never be remembered; not even for the sovereignty of the three worlds or for liberation is happiness found in enmity, but only in freedom from it.
एवं परस्परं प्रीताः सन्तो देवाश् च दानवाः एकीभूताश् च सुप्रीता विमथ्य वरुणालयम्
Thus, being mutually pleased, the gods and demons, united and well-disposed, churned the abode of Varuṇa together.
मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् देवाश् च दानवाः सर्वे ममन्थुर् वरुणालयम्
Using Mount Mandara as the churning rod and Vāsuki as the rope, all the gods and demons churned the ocean, the abode of Varuṇa.
उत्पन्नं च ततः पुण्यम् अमृतं सुरवल्लभम् निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम्
Then arose the sacred nectar, beloved of the gods; and when the pure nectar was obtained, they spoke to each other.
यामः स्वं स्वम् अधिष्ठानं कृतकार्याः श्रमं गताः सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम्
Let us return to our own abodes, our task accomplished and our fatigue spent; let all be divided equally among all, according to propriety.
यदा सर्वागमो यत्र यस्मिंल् लग्ने शुभावहे विभज्यताम् इदं पुण्यम् अमृतं सुरसत्तमाः
At the auspicious moment when all have assembled, O best of gods, let this sacred nectar be divided.
इत्य् उक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः गतेषु दैत्यसंघेषु देवाः सर्वे ऽन्वमन्त्रयन्
Having said this, all the Daityas, Dānavas, and Rākṣasas departed; when the hosts of Daityas had gone, all the gods consulted together.
गतास् ते रिपवो ऽस्माकं दैवयोगाद् अरिंदमाः रिपूणाम् अमृतं नैव देयं भवति सर्वथा
By divine arrangement, our enemies have departed, O subduers of foes; nectar must never be given to the enemies under any circumstances.
बृहस्पतिस् तथेत्य् आह पुनर् आह सुरान् इदम्
Bṛhaspati said, 'So be it,' and then spoke these words to the gods.
न जानन्ति यथा पापा पिबध्वं च तथामृतम् अयम् एवोचितो मन्त्रो यच् छत्रूणां पराभवः
They do not know as the wicked do; therefore, drink the nectar accordingly. This is the prescribed counsel for the defeat of enemies.