तत्रापांपतिर् उत्कृष्टं ददाति मनसीप्सितम् वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः
There, the lord of waters, Varuṇa, grants the highest wish of the mind; Varuṇa, renowned among sages as the giver of all.
स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति एतच् छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत्
Pleased, he will in time grant you a son; hearing this, the best of kings acted according to the words of the sages.
तोषयाम् आस वरुणं गौतमीतीरम् आश्रितः ततश् च तुष्टो वरुणो हरिश्चन्द्रम् उवाच ह
He pleased Varuṇa, dwelling on the bank of the Gautamī; then, satisfied, Varuṇa spoke to Hariśchandra.
पुत्रं दास्यामि ते राजंल् लोकत्रयविभूषणम् यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम्
I will give you a son, O king, an ornament of the three worlds; if you sacrifice with him, your son will surely be born.
हरिश्चन्द्रो ऽपि वरुणं यक्ष्ये तेनेत्य् अवोचत ततो गत्वा हरिश्चन्द्रश् चरुं कृत्वा तु वारुणम्
Hariśchandra also said to Varuṇa, 'I will sacrifice with him'; then Hariśchandra went and prepared a Varuṇa-offering.
भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् जाते पुत्रे अपाम् ईशः प्रोवाच वदतां वरः
The king gave it to his wife; then a son was born to the king. When the son was born, the lord of waters, best among speakers, spoke.
अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा
Today itself the son must be sacrificed; do you remember the promise made before?
हरिश्चन्द्रो ऽपि वरुणं प्रोवाचेदं क्रमागतम्
Hariśchandra then spoke to Varuṇa, as was appropriate in order.
निर्दशो मेध्यतां याति पशुर् यक्ष्ये ततो ह्य् अहम्
When the animal becomes ten days old and pure, then I will sacrifice with him.
तच् छ्रुत्वा वचनं राज्ञो वरुणो ऽगात् स्वम् आलयम् निर्दशे पुनर् अभ्येत्य यजस्वेत्य् आह तं नृपम्
Hearing the king’s words, Varuṇa returned to his own abode; when ten days had passed, he came again and said to the king, 'Sacrifice now.'
राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः पशोर् दन्तेषु जातेषु एहि गच्छाधुनाप्पते
The king also said to Varuṇa, 'The animal is toothless and unfit; when the animal’s teeth have come in, then come, O lord of waters.'
तच् छ्रुत्वा राजवचनं पुनः प्रायाद् अपांपतिः जातेषु चैव दन्तेषु सप्तवर्षेषु नारद
Hearing the king’s words, the lord of waters departed again; and, O Nārada, when the teeth had come in at seven years,
पुनर् अप्य् आह राजानं यजस्वेति ततो ऽब्रवीत् राजापि वरुणं प्राह पत्स्यन्तीमे अपांपते
Again he said to the king, 'Sacrifice now'; then the king said to Varuṇa, 'These teeth will fall out, O lord of waters.'
संपत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद यजस्वेति नृपं प्राह राजा प्राह त्व् अपांपतिम्
'They will grow again, and others as well; then I will sacrifice—go now.' Again Varuṇa departed; when the new teeth came in, O Nārada, he said to the king, 'Sacrifice now,' and the king replied to the lord of waters.
यदा तु क्षत्रियो यज्ञे पशुर् भवति वारिप धनुर्वेदं यदा वेत्ति तदा स्यात् पशुर् उत्तमः
When a Kshatriya becomes the sacrificial animal in a ritual, O lord of waters, and when he knows the science of archery, then he becomes the best of sacrificial victims.
तच् छ्रुत्वा राजवचनं वरुणो ऽगात् स्वम् आलयम् यदास्त्रेषु च शस्त्रेषु समर्थो ऽभूत् स रोहितः
Hearing the king’s words, Varuna returned to his own abode; and when Rohita became skilled in weapons and missiles,
सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्व् अरिंदमः युवराज्यम् अनुप्राप्ते रोहिते षोडशाब्दिके
That subduer of foes became learned in all the Vedas and treatises; when Rohita reached sixteen years, he attained the position of crown prince.
प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम्
He became joyful there, where the king and Rohita were together; Varuna arrived and said, 'Now offer your son in sacrifice.'
ॐ इत्य् उक्त्वा नृपवर ऋत्विजः प्राह भूपतिः रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च
Saying 'Om,' the best of kings addressed the priests, as Rohita, his eldest son, and Varuna listened.
एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि
Come, my son, great hero; I will sacrifice you to Varuna.
किम् एतद् इत्य् अथोवाच रोहितः पितरं प्रति पितापि तद् यथावृत्तम् आचचक्षे सविस्तरम् रोहितः पितरं प्राह शृण्वतो वरुणस्य च
Then Rohita said to his father, 'What is this?' And his father explained everything to him in detail, as Varuna listened.
अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः विष्णवे लोकनाथाय यक्ष्ये ऽहं त्वरितं शुचिः पशुना वरुणेनाथ तद् अनुज्ञातुम् अर्हसि
O great king, I, together with the priests and the chief priest, will quickly and purely sacrifice to Vishnu, lord of the worlds, with an animal; O Varuna, you should permit this.
रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस् तदा कोपेन महताविष्टो जलोदरम् अथाकरोत्
Hearing Rohita’s words, the lord of waters was then seized by great anger and caused dropsy.
हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ गृहीत्वा स धनुर् दिव्यं रथारूढो गतव्यथः
Rohita, son of King Harishchandra, went to the forest, taking his divine bow, mounted on a chariot, free from sorrow.
यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सो ऽपि रोहितः
Where King Harishchandra, having worshipped Varuna, obtained a son on the Ganga, there Rohita also arrived.
व्यतीतान्य् अथ वर्षाणि पञ्च षष्ठे प्रवर्तति तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम्
Then five years passed; in the sixth year, while staying there, the prince heard of the king’s illness.
मया पुत्रेण जातेन पितुर् वै क्लेशकारिणा किं फलं किं नु कृत्यं स्याद् इत्य् एवं पर्यचिन्तयत्
He thought, 'What fruit or purpose is there in a son who, having been born, brings suffering to his father?'
तस्यास् तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः गङ्गातीरे वर्तमानम् अपश्यद् ऋषिसत्तमम्
On that bank, the king’s son saw holy sages; on the bank of the Ganga, he saw the best of seers dwelling.
अजीगर्तम् इति ख्यातम् ऋषेस् तु वयसः सुतम् त्रिभिः पुत्रैर् अनुवृतं भार्यया क्षीणवृत्तिकम् तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो ऽब्रवीत्
He saw Ajigarta, famed as the son of a sage, accompanied by his three sons and wife, whose means of living were exhausted; seeing him, the king’s son bowed and spoke these words:
क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे
Why are you emaciated, with your livelihood diminished, and why do you appear so dejected?