मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः
Completely saturated by the fat of Madhu and Kaitabha, therefore this goddess Earth is called Medini by those who know Brahman.
ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते
Then, by the acceptance of King Prithu, O twice-born ones, the goddess attained the status of daughter and is thus called Prithvi.
पृथुना प्रविभक्ता च शोधिता च वसुंधरा सस्याकरवती स्फीता पुरपत्तनशालिनी
By Prithu, the earth was divided and purified; she became abundant with crops, prosperous, and rich in cities and towns.
एवंप्रभावो वैण्यः स राजासीद् राजसत्तमः नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः
Such was the greatness of Vainya, that king among kings; he is certainly worthy of worship and honor by all beings.
ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः
Even by the most fortunate Brahmins, masters of the Vedas and Vedangas, Prithu alone is to be revered, being of the eternal Brahma lineage.
पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान्
Likewise, by the most fortunate kings who desire sovereignty, the first king, Prithu Vainya, renowned for his might, is to be revered.
योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि आदिराजो नमस्कार्यो योधानां प्रथमो नृपः
Even by valiant warriors who seek victory in battle, the first king, Prithu, is to be revered as the foremost among warriors.
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान्
Indeed, any warrior who enters battle after praising King Prithu emerges safely from the dreadful conflict, gaining fame.
वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः
Even by wealthy Vaisyas, engaged in their proper duties, Prithu alone is to be revered, the great and renowned giver of livelihood.
तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः
Likewise, by pure Shudras who serve the three higher classes, Prithu alone is to be revered by those who seek the highest good here.
एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः
These distinctions among calves, milkers, milk, and vessels have been described by me; what more should I explain to you?
मन्वन्तराणि सर्वाणि विस्तरेण महामते तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय
O wise one, recount in detail all the Manvantaras and their previous creations, O Lomaharshana.
यावन्तो मनवश् चैव यावन्तं कालम् एव च मन्वन्तराणि भोः सूत श्रोतुम् इच्छाम तत्त्वतः
O Sūta, we wish to hear, in truth, how many Manus there have been, for how long, and the Manvantaras.
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैर् अपि मन्वन्तराणां सर्वेषां संक्षेपाच् छृणुत द्विजाः
O twice-born, the full account of all the Manvantaras cannot be spoken even in hundreds of years; hear the summary.
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा
First was Svāyambhuva Manu, then Svārociṣa, Uttama, Tāmasa, Raivata, and also Cākṣuṣa.
वैवस्वतश् च भो विप्राः सांप्रतं मनुर् उच्यते सावर्णिश् च मनुस् तद्वद् रैभ्यो रौच्यस् तथैव च
O Brāhmaṇas, Vaivasvata is the Manu currently spoken of; likewise, Sāvarṇi, Raibhya, and Raucyas.
तथैव मेरुसावर्ण्यश् चत्वारो मनवः स्मृताः अतीता वर्तमानाश् च तथैवानागता द्विजाः
Similarly, Merusāvarṇya—four Manus are remembered: those past, present, and also those yet to come, O twice-born.
कीर्तिता मनवस् तुभ्यं मयैवैते यथा श्रुताः ऋषींस् त्व् एषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा
I have named these Manus to you as I have heard; now I will declare their sages, sons, and divine hosts.
मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः
Marīci, Atri, the venerable Aṅgirā, Pulaha, Kratu, Pulastya, and Vasiṣṭha—these seven are sons of Brahmā.
उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस् तथा आग्निइध्रश् चाग्निबाहुश् च मेध्यो मेधातिथिर् वसुः
Likewise, O twice-born, in the northern direction are the seven sages: Āgnīdhra, Āgnibāhu, Medhya, Medhātithi, and Vasu.
ज्योतिष्मान् द्युतिमान् हव्यः सवलः पुत्रसंज्ञकः मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः
Jyotiṣmān, Dyutimān, Havya, Savala, and Putrasaṃjñaka—these ten mighty sons of Svāyambhuva Manu.
एतद् वै प्रथमं विप्रा मन्वन्तरम् उदाहृतम् और्वो वसिष्ठपुत्रश् च स्तम्बः कश्यप एव च
This, O Brāhmaṇas, is called the first Manvantara; Aurva, son of Vasiṣṭha, Stamba, and Kaśyapa as well.
प्राणो बृहस्पतिश् चैव दत्तो ऽत्रिच्च्यवनस् तथा एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः
Prāṇa, Bṛhaspati, Datta, Atri, and Cyavana—these great sages, O Brāhmaṇas, are renowned for their vows, as spoken by Vāyu.
देवाश् च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे हविघ्नः सुकृतिर् ज्योतिर् आपो मूर्तिर् अपि स्मृतः
The gods called Tuṣitas are remembered in the Svārociṣa interval: Havighna, Sukṛti, Jyotir, Āpa, and Mūrti are also recalled.
प्रतीतश् च नभस्यश् च नभ ऊर्जस् तथैव च स्वारोचिषस्य पुत्रास् ते मनोर् विप्रा महात्मनः
Pratīta, Nabhasya, Nabha, and Ūrja likewise—these are the sons of Svārociṣa Manu, O Brāhmaṇas of great soul.
कीर्तिताः पृथिवीपाला महावीर्यपराक्रमाः द्वितीयम् एतत् कथितं विप्रा मन्वन्तरं मया
The rulers of the earth, famed for their great strength and valor, have been named; this is the second Manvantara described by me, O Brāhmaṇas.
इदं तृतीयं वक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः
Now I will speak of the third; understand this, O best of twice-born. The seven sons of Vasiṣṭha are known as the Vāsiṣṭhas.
हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ऋषयो ऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोधत
The sons of Hiraṇyagarbha, Ūrjā, born of great brilliance, are the sages here spoken by me; listen as they are praised.
औत्तमेयान् मुनिश्रेष्ठा दश पुत्रान् मनोर् इमान् इष ऊर्जस् तनूर्जस् तु मधुर् माधव एव च
O best of sages, these are the ten sons of Manu, born of Uttamā: Iṣa, Ūrja, Tanūrja, Madhur, Mādhava,
शुचिः शुक्रः सहश् चैव नभस्यो नभ एव च भानवस् तत्र देवाश् च मन्वन्तरम् उदाहृतम्
Śuci, Śukra, Saha, Nabhasya, Nabha, and Bhānava; and there, the gods are also declared for that Manvantara.