दत्त्वैवम् अर्घ्यं विधिवद् आनाय्य स महीपतिः कलिङ्गाधिपतिं शूरम् उत्कलाधिपतिं तथा कोशलाधिपतिं चैव तान् उवाच तदा नृपः
Having thus offered arghya according to the rite, the king summoned the valiant lord of Kaliṅga, the lord of Utkala, and the lord of Kośala, and addressed them then.
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः गृहीत्वा शिल्पिमुख्यांश् च शिलाकर्मविशारदान्
Go forth together, all of you, with full attention for the purpose of stones, taking along the chief artisans skilled in stonework.
विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः संवाह्यन्तां च शकटैर् नौकाभिर् मा विलम्बथ
Survey the wide Vindhya mountain, adorned with many caves, examine all its slopes, cut out auspicious stones, and have them transported by carts and boats without delay.
एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः पुनर् एवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान्
Thus instructing those kings to go, the lord of the earth again spoke these words to his ministers and priests:
गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः
Let messengers go everywhere and announce my command wherever kings dwell on earth, and let them go swiftly.
हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात्
Go forth together, all of you, with elephants, horses, chariots, and infantry, along with ministers and priests, by the order of Indradyumna.
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना गत्वा तदा नृपान् ऊचुर् वचनं तस्य भूपतेः
Thus, the messengers, instructed by that great-souled king, went and spoke the words of that ruler to the other kings.
श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः आजग्मुस् त्वरिताः सर्वे स्वसैन्यैः परिवारिताः
Hearing the words of the messengers, all those kings quickly arrived, each surrounded by their own armies.
ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः
Those kings from every direction, those dwelling in the south, those established in the west, and those settled in the northern regions,
प्रत्यन्तवासिनो ये ऽपि ये च संनिधिवासिनः पार्वतीयाश् च ये केचित् तथा द्वीपनिवासिनः
Those living on the frontiers, those residing nearby, those from the mountains, and those dwelling on islands—whoever they were.
रथैर् नागैः पदातैश् च वाजिभिर् धनविस्तरैः संप्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम्
Many learned Brahmins arrived, having heard Indradyumna's command, coming with chariots, elephants, infantry, horses, and abundant wealth.
तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् प्रोवाच राजा हृष्टात्मा कार्यम् उद्दिश्य सादरम्
Seeing those assembled kings, along with their ministers and priests, the king, his heart gladdened, respectfully addressed them regarding his purpose.
शृणुध्वं नृपशार्दूला यथा किंचिद् ब्रवीम्य् अहम् अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे
Hear me, O best of kings, as I speak briefly about this most excellent and holy field, which bestows both enjoyment and liberation.
हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् कथं शक्नोम्य् अहं कर्तुम् इति चिन्ताकुलं मनः
My mind is troubled, pondering how I might accomplish the great horse-sacrifice, the supreme sacrifice, and the construction of a Vaishnava temple.
भवद्भिः सुसहायैस् तु सर्वम् एतत् करोम्य् अहम् यदि यूयं सहाया मे भवध्वं नृपसत्तमाः
With your excellent assistance, O foremost of kings, I can accomplish all this, if you will become my helpers.
इत्य् एवं वदमानस्य राजराजस्य धीमतः सर्वे प्रमुदिता हृष्टा भूपास् ते तस्य शासनात्
As the wise king of kings spoke thus, all the kings, delighted and joyful, responded at his command.
ववृषुर् धनरत्नैश् च सुवर्णमणिमौक्तिकैः कम्बलाजिनरत्नैश् च राङ्कवास्तरणैः शुभैः
They showered him with wealth and jewels, with gold, gems, pearls, fine blankets, deerskins, precious rugs, and splendid carpets.
वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः गजैर् अश्वैर् धनैश् चान्यै रथैश् चैव करेणुभिः
With diamonds, cat's-eye gems, rubies, lotus gems, sapphires, elephants, horses, other riches, chariots, and female elephants.
असंख्येयैर् बहुविधैर् द्रव्यैर् उच्चावचैस् तथा शालिव्रीहियवैश् चैव माषमुद्गतिलैस् तथा
With countless and various goods, both high and low in value, and with rice, barley, wheat, beans, and sesame seeds.
सिद्धार्थचणकैश् चैव गोधूमैर् मसुरादिभिः श्यामाकैर् मधुकैश् चैव नीवारैः सकुलत्थकैः
With siddhartha, chickpeas, wheat, lentils and the like, with wild millet, honey, nivara rice, and kulattha beans.
अन्यैश् च विविधैर् धान्यैर् ग्राम्यारण्यैः सहस्रशः बहुधान्यसहस्राणां तण्डुलानां च राशिभिः
With other diverse grains, both cultivated and wild, by the thousands, and with heaps of thousands of different kinds of rice.
गव्यस्य हविषः कुम्भैः शतशो ऽथ सहस्रशः तथान्यैर् विविधैर् द्रव्यैर् भक्ष्यभोज्यानुलेपनैः
With hundreds and thousands of jars of cow's ghee for offerings, and with other various goods, foods, cooked dishes, and ointments.
राजानः पूरयाम् आसुर् यत् किंचिद् द्रव्यसंभवैः तान् दृष्ट्वा यज्ञसंभारान् सर्वसंपत्समन्वितान्
The kings filled all needs with whatever resources they had; seeing those sacrificial materials, endowed with every prosperity—
यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु
He saw Brahmins skilled in sacrificial rites, accomplished in the Vedas and Vedāṅgas, expert in the scriptures, and adept in all rituals.
ऋषींश् चैव महर्षींश् च देवर्षींश् चैव तापसान् ब्रह्मचारिगृहस्थांश् च वानप्रस्थान् यतींस् तथा
He saw sages, great sages, divine sages, ascetics, celibates, householders, forest-dwellers, and renunciants as well.
स्नातकान् ब्राह्मणांश् चान्यान् अग्निहोत्रे सदा स्थितान् आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान्
He saw graduates and other Brahmins, always engaged in fire-offerings, distinguished teachers and preceptors, devoted to study and austerity.
सदस्याञ् शास्त्रकुशलांस् तथान्यान् पावकान् बहून् दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम्
He saw members of the assembly skilled in the scriptures, and many other pure souls; seeing them, the illustrious king spoke to his own priest.
ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्
Let the learned Brahmins, accomplished in the Vedas, now proceed to the sacrificial ground to ensure the success of the horse-sacrifice.
इत्य् उक्तः स तथा चक्रे वचनं तस्य भूपतेः हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः
Thus addressed, he acted accordingly to the words of the king, delighted together with his ministers, that royal priest.
ततो ययौ पुरोधाश् च प्राज्ञः स्थपतिभिः सह ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि
Then the wise priest departed with the architects, placing skilled Brahmins in sacrificial rites at the forefront.