ततः शतसहस्रांशुर् अव्यक्तश् च पुनः स्वयम् कृत्वा द्वादशधात्मानम् आदित्यम् उपपद्यते
Then, the thousand-rayed one, himself unmanifest, having made himself twelvefold, becomes the Sun.
इन्द्रो धाताथ पर्जन्यस् त्वष्टा पूषार्यमा भगः विवस्वान् विष्णुर् अंशश् च वरुणो मित्र एव च
Indra, Dhātā, Parjanya, Tvaṣṭṛ, Pūṣan, Aryaman, Bhaga, Vivasvān, Viṣṇu, Aṃśa, Varuṇa, and Mitra—
आभिर् द्वादशभिस् तेन सूर्येण परमात्मना कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः
By these twelve forms, that supreme Self, the Sun, pervades this entire world with his manifestations, O best of twice-born.
तस्य या प्रथमा मूर्तिर् आदित्यस्येन्द्रसंज्ञिता स्थिता सा देवराजत्वे देवानां रिपुनाशिनी
His first form, called Indra, stands as the king of the gods, destroying the enemies of the gods.
द्वितीया तस्य या मूर्तिर् नाम्ना धातेति कीर्तिता स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः
His second form, known by the name Dhātā, abides as the lord of creatures and creates various beings.
तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता मेघेष्व् एव स्थिता सा तु वर्षते च गभस्तिभिः
The third form of the Sun, renowned as Parjanya, abides in the clouds and causes rain with his rays.
चतुर्थी तस्य या मूर्तिर् नाम्ना त्वष्टेति विश्रुता स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः
His fourth form, known as Tvaṣṭṛ, abides in trees and in all plants everywhere.
पञ्चमी तस्य या मूर्तिर् नाम्ना पूषेति विश्रुता अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः
His fifth form, called Pūṣan, is established in food and always nourishes living beings.
मूर्तिः षष्ठी रवेर् या तु अर्यमा इति विश्रुता वायोः संसरणा सा तु देवेष्व् एव समाश्रिता
The sixth form of the Sun, known as Aryaman, is the movement in the wind and is found among the gods.
भानोर् या सप्तमी मूर्तिर् नाम्ना भगेति विश्रुता भूयिष्व् अवस्थिता सा तु शरीरेषु च देहिनाम्
The seventh form of the Sun, called Bhaga, abides in abundance and in the bodies of living beings.
मूर्तिर् या त्व् अष्टमी तस्य विवस्वान् इति विश्रुता अग्नौ प्रतिष्ठिता सा तु पचत्य् अन्नं शरीरिणाम्
His eighth form, known as Vivasvān, is established in fire and cooks the food of embodied beings.
नवमी चित्रभानोर् या मूर्तिर् विष्णुश् च नामतः प्रादुर्भवति सा नित्यं देवानाम् अरिसूदनी
The ninth form of the radiant Sun, named Viṣṇu, appears continually and destroys the enemies of the gods.
दशमी तस्य या मूर्तिर् अंशुमान् इति विश्रुता वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः
His tenth form, known as Aṃśumān, is established in the wind and brings delight to living beings.
मूर्तिस् त्व् एकादशी भानोर् नाम्ना वरुणसंज्ञिता जलेष्व् अवस्थिता सा तु प्रजां पुष्णाति नित्यशः
The eleventh form of the Sun, called Varuṇa, abides in the waters and always nourishes living beings.
मूर्तिर् या द्वादशी भानोर् नाम्ना मित्रेति संज्ञिता लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे
The twelfth form of the Sun, known by the name Mitra, stands established on the banks of the lunar river for the welfare of the worlds.
वायुभक्षस् तपस् तेपे स्थित्वा मैत्रेण चक्षुषा अनुगृह्णन् सदा भक्तान् वरैर् नानाविधैस् तु सः
Sustaining himself on air, he performed austerities, remaining with the vision of friendship, always granting various boons to devoted followers.
एवं सा जगतां मूर्तिर् हिता विहिता पुरा तत्र मित्रः स्थितो यस्मात् तस्मान् मित्रं परं स्मृतम्
Thus, that form for the good of the worlds was established in ancient times; because Mitra stood there, he is therefore remembered as the supreme friend.
आभिर् द्वादशभिस् तेन सवित्रा परमात्मना कृत्स्नं जगद् इदं व्याप्तं मूर्तिभिश् च द्विजोत्तमाः
By these twelve forms, O best of twice-born, the Supreme Soul Savitṛ has pervaded this entire universe.
तस्माद् ध्येयो नमस्यश् च द्वादशस्थासु मूर्तिषु भक्तिमद्भिर् नरैर् नित्यं तद्गतेनान्तरात्मना
Therefore, in the twelve abodes, the forms are to be meditated upon and worshipped by devoted men, with minds absorbed in him at all times.
इत्य् एवं द्वादशादित्यान् नमस्कृत्वा तु मानवः नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते
Thus, having saluted the twelve Ādityas, a person who listens to and recites this daily is honored in the world of the Sun.
यदि तावद् अयं सूर्यश् चादिदेवः सनातनः ततः कस्मात् तपस् तेपे वरेप्सुः प्राकृतो यथा
If this Sun is the original, eternal god, then why did he perform austerities, desiring boons, like an ordinary being?
एतद् वः संप्रवक्ष्यामि परं गुह्यं विभावसोः पृष्टं मित्रेण यत् पूर्वं नारदाय महात्मने
I shall now tell you this supreme secret regarding the radiant one, which was formerly asked by Mitra and narrated to the great Nārada.
प्राङ् मयोक्तास् तु युष्मभ्यं रवेर् द्वादश मूर्तयः मित्रश् च वरुणश् चोभौ तासां तपसि संस्थितौ
Previously, I have told you about the twelve forms of the Sun; among them, both Mitra and Varuṇa engaged in austerities.
अब्भक्षो वरुणस् तासां तस्थौ पश्चिमसागरे मित्रो मित्रवने चास्मिन् वायुभक्षो ऽभवत् तदा
Of them, Varuṇa, subsisting on water, remained at the western ocean, while Mitra, subsisting on air, was then in this Mitravana.
अथ मेरुगिरेः शृङ्गात् प्रच्युतो गन्धमादनात् नारदस् तु महायोगी सर्वांल् लोकांश् चरन् वशी
Then, from the peak of Mount Meru, from Gandhamādana, the great yogi Nārada, self-controlled, wandered through all the worlds.
आजगामाथ तत्रैव यत्र मित्रो ऽचरत् तपः तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्य् अभूत्
He arrived there, where Mitra was practicing austerity; seeing him engaged in penance, curiosity arose in him.
यो ऽक्षयश् चाव्ययश् चैव व्यक्ताव्यक्तः सनातनः धृतम् एकात्मकं येन त्रैलोक्यं सुमहात्मना
He who is imperishable and undecaying, manifest and unmanifest, eternal, by whom the three worlds are upheld as one essence, the great-souled one.
यः पिता सर्वदेवानां पराणाम् अपि यः परः अयजद् देवताः कास् तु पितॄन् वा कान् असौ यजेत् इति संचिन्त्य मनसा तं देवं नारदो ऽब्रवीत्
He who is the father of all the gods, and beyond even the highest, Nārada, pondering in his mind, wondered: 'Which gods or ancestors should he worship?' and spoke to that god.
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे त्वम् अजः शाश्वतो धाता त्वं निधानम् अनुत्तमम्
In the Vedas and Purāṇas, with their limbs and sub-limbs, you are praised as the unborn, eternal creator, the unsurpassed foundation.
भूतं भव्यं भवच् चैव त्वयि सर्वं प्रतिष्ठितम् चत्वारश् चाश्रमा देव गृहस्थाद्यास् तथैव हि
All that was, is, and will be abides in you; and the four āśramas, beginning with householder, O god, are likewise established in you.