वातापिर् नमुचिश् चैव इल्वलः स्वसृमस् तथा अञ्जिको नरकश् चैव कालनाभस् तथैव च
Vātāpi, Namuchi, Ilvala, and his sister, Anjika, Naraka, and Kālanābha likewise.
सरमानस् तथा चैव स्वरकल्पश् च वीर्यवान् एते वै दानवाः श्रेष्ठा दनोर् वंशविवर्धनाः
Saramāna, Svarakalpa the mighty; these are the foremost Danavas, enhancers of Danu's lineage.
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः संह्रादस्य तु दैत्यस्य निवातकवचाः कुले
Their sons and grandsons numbered in the hundreds and thousands; among them, the Nivātakavachas arose in the clan of the Daitya Saṃhrāda.
समुत्पन्नाः सुमहता तपसा भावितात्मनः तिस्रः कोट्यः सुतास् तेषां मणिवत्यां निवासिनः
Born through great austerity by those of purified spirit, three crores of sons resided in Maṇivati.
अवध्यास् ते ऽपि देवानाम् अर्जुनेन निपातिताः षट् सुताः सुमहाभागास् ताम्रायाः परिकीर्तिताः
They too were invulnerable to the gods, yet were slain by Arjuna; six illustrious sons of Tāmrā are mentioned.
क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका क्रौञ्ची तु जनयाम् आस उलूकप्रत्युलूककान्
Krauñcī, Śyenī, Bhāsī, Sugrīvī, Śucigṛdhrikā; Krauñcī gave birth to owls and their kin.
श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्र्य् अपि शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः
Śyenī produced hawks, Bhāsī produced herons, Gṛdhrī produced vultures; Śuci gave rise to aquatic birds, and Sugrīvī to the best of twice-born birds.
अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ
Horses, camels, and asses are said to belong to Tāmrā's lineage; Vinatā had two renowned sons, Garuḍa and Aruṇa.
गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम्
Garuḍa, the foremost among those who fly, fierce in his own deeds; Surasā had a thousand serpents of immense energy.
अनेकशिरसां विप्राः खचराणां महात्मनाम् काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः
O Brahmins, among the Kadru lineage, there were a thousand powerful serpents, many with multiple heads, moving through the sky, possessed of great souls.
सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः येषां प्रधानाः सततं शेषवासुकितक्षकाः
The Nāgas, subject to Suparṇa, were born with many heads; among them, Śeṣa, Vāsuki, and Takṣaka are always the chief.
ऐरावतो महापद्मः कम्बलाश्वतराव् उभौ एलापत्त्रश् च शङ्खश् च कर्कोटकधनंजयौ
Airāvata, Mahāpadma, both Kambala and Aśvatara, Elāpattra, Śaṅkha, Karkoṭaka, and Dhanaṃjaya.
महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ कुहरः पुष्पदंष्ट्रश् च दुर्मुखः सुमुखस् तथा
Mahānīla, Mahākarṇa, Dhṛtarāṣṭra, Balāhaka, Kuhara, Puṣpadaṃṣṭra, Durmukha, and Sumukha likewise.
शङ्खश् च शङ्खपालश् च कपिलो वामनस् तथा नहुषः शङ्खरोमा च मणिर् इत्य् एवमादयः
Śaṅkha, Śaṅkhapāla, Kapila, Vāmana, Nahuṣa, Śaṅkharoma, and Maṇi—these are the foremost.
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः चतुर्दशसहस्राणि क्रूराणाम् अनिलाशिनाम्
Their sons and grandsons numbered in the hundreds and thousands; fourteen thousand fierce, wind-eating ones.
गणं क्रोधवंशं विप्रास् तस्य सर्वे च दंष्ट्रिणः स्थलजाः पक्षिणो ऽब्जाश् च धरायाः प्रसवाः स्मृताः
O Brahmins, the entire Krodha lineage is composed of those with fangs; terrestrial, avian, and aquatic creatures are remembered as the offspring of the earth.
गास् तु वै जनयाम् आस सुरभिर् महिषीस् तथा इरा वृक्षलता वल्लीस् तृणजातीश् च सर्वशः
Surabhi gave birth to cows, and likewise to buffaloes; Irā produced all kinds of trees, creepers, vines, and grasses.
खसा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा अरिष्टा तु महासिद्धा गन्धर्वान् अमितौजसः
Khasā gave rise to yakṣas and rākṣasas, and the sage begot apsarases; Ariṣṭā produced the mighty and illustrious gandharvas.
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः येषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः
These descendants of Kaśyapa, both stationary and moving beings, have been described, whose sons and grandsons are numbered in the hundreds and thousands.
एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः वैवस्वते ऽतिमहति वारुणे वितते क्रतौ
O brāhmaṇas, this creation in the Svārociṣa Manvantara is remembered; in the vast Vaivasvata and the extended Vāruṇa sacrifices as well.
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते पूर्वं यत्र समुत्पन्नान् ब्रह्मर्षीन् सप्त मानसान्
Now is told here the creation of beings by Brahmā, who offered oblations, when first the seven mind-born brahmarṣis arose.
पुत्रत्वे कल्पयाम् आस स्वयम् एव पितामहः ततो विरोधे देवानां दानवानां च भो द्विजाः
The Grandfather himself established them as his sons; then, O twice-born, there was conflict between the gods and the dānavas.
दितिर् विनष्टपुत्रा वै तोषयाम् आस कश्यपम् कश्यपस् तु प्रसन्नात्मा सम्यग् आराधितस् तया
Diti, bereft of her sons, sought to please Kaśyapa; and Kaśyapa, his mind appeased, was properly worshipped by her.
वरेण च्छन्दयाम् आस सा च वव्रे वरं तदा पुत्रम् इन्द्रवधार्थाय समर्थम् अमितौजसम्
He offered her a boon of her choosing, and she then chose a son, powerful and mighty, for the purpose of slaying Indra.
स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः दत्त्वा च वरम् अत्युग्रो मारीचः समभाषत
Thus entreated, the great ascetic granted her the boon; after granting it, the formidable Mārīca spoke to her.
इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् यदि धारयसे शौचतत्परा व्रतम् आस्थिता
Your son will slay Indra, if you carry the embryo for a hundred years, steadfast in purity and observant of your vow.
तथेत्य् अभिहितो भर्ता तया देव्या महातपाः धारयाम् आस गर्भं तु शुचिः सा मुनिसत्तमाः
The great ascetic, addressed thus by the goddess, agreed, and she, pure and foremost among sages, began to bear the embryo.
ततो ऽभ्युपागमद् दित्यां गर्भम् आधाय कश्यपः रोधयन् वै गणं श्रेष्ठं देवानाम् अमितौजसम्
Then Kaśyapa, having implanted the embryo in Diti, departed, restraining the most excellent and mighty host of the gods.
तेजः संहृत्य दुर्धर्षम् अवध्यम् अमरैर् अपि जगाम पर्वतायैव तपसे संशितव्रता
Withdrawing his irresistible energy, which even the immortals could not withstand, he went to the mountain for ascetic practice, firm in his vow.
तस्याश् चैवान्तरप्रेप्सुर् अभवत् पाकशासनः जाते वर्षशते चास्या ददर्शान्तरम् अच्युतः
Desiring to find a flaw in her, Pākaśāsana (Indra) waited; when a hundred years had passed, the infallible one perceived an opening.