ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस् तथैव च विरोचनश् च प्राह्रादिर् बलिर् जज्ञे विरोचनात्
Hrada had two heroic sons: Śiva and Kāla; likewise, Virocana was born as the son of Prahrāda, and Bali was born from Virocana.
बलेः पुत्रशतम् आसीद् बाणज्येष्ठं तपोधनाः धृतराष्ट्रश् च सूर्यश् च चन्द्रमाश् चन्द्रतापनः
Bali had a hundred sons, with Bāṇa as the eldest, all rich in ascetic power; Dhṛtarāṣṭra, Sūrya, Candra, and Candratāpana were among them.
कुम्भनाभो गर्दभाक्षः कुक्षिर् इत्य् एवमादयः बाणस् तेषाम् अतिबलो ज्येष्ठः पशुपतेः प्रियः
Kumbhanābha, Gardabhākṣa, Kukṣi, and others were among them; Bāṇa, the eldest, was exceedingly strong and dear to Paśupati.
पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् पार्श्वतो विहरिष्यामि इत्य् एवं याचितो वरः
In a previous cycle, Bāṇa pleased the lord Umāpati and, having requested, received the boon to dwell beside him.
हिरण्याक्षसुताश् चैव विद्वांसश् च महाबलाः भर्भरः शकुनिश् चैव भूतसंतापनस् तथा
The sons of Hiraṇyākṣa were wise and mighty: Bharbhara, Śakuni, and Bhūtasaṃtāpana as well.
महानाभश् च विक्रान्तः कालनाभस् तथैव च अभवन् दनुपुत्राश् च शतं तीव्रपराक्रमाः
Mahānābha, valiant, and Kālanābha likewise, were among them; also, a hundred sons of Danu, fierce in their prowess.
तपस्विनो महावीर्याः प्राधान्येन ब्रवीमि तान् द्विमूर्धा शङ्कुकर्णश् च तथा हयशिरा विभुः
Ascetics of great strength, I name them chiefly: Dvimūrdhā, Śaṅkukarṇa, and also Hayaśirā, the illustrious.
अयोमुखः शम्बरश् च कपिलो वामनस् तथा मारीचिर् मघवांश् चैव इल्वलः स्वसृमस् तथा
Ayomukha, Śambara, Kapila, Vāmana, Mārīci, Maghavān, Ilvala, and Svasṛma as well.
विक्षोभणश् च केतुश् च केतुवीर्यशतह्रदौ इन्द्रजित् सर्वजिच् चैव वज्रनाभस् तथैव च
Vikṣobhaṇa, Ketu, Ketuvīryaśatahrada, Indrajit, Sarvajit, and Vajranābha likewise.
एकचक्रो महाबाहुस् तारकश् च महाबलः वैश्वानरः पुलोमा च विद्रावणमहाशिराः
Ekacakra, mighty-armed, Tāraka, greatly powerful, Vaiśvānara, Pulomā, and Vidrāvaṇamahāśirā.
स्वर्भानुर् वृषपर्वा च विप्रचित्तिश् च वीर्यवान् सर्व एते दनोः पुत्राः कश्यपाद् अभिजज्ञिरे
Svarbhānu, Vṛṣaparvā, and Vipracitti, strong in valor—all these were sons of Danu, born from Kaśyapa.
विप्रचित्तिप्रधानास् ते दानवाः सुमहाबलाः एतेषां पुत्रपौत्रं तु न तच् छक्यं द्विजोत्तमाः
These Dānavas, led by Vipracitti, were exceedingly powerful; O best of twice-born, their sons and grandsons cannot be enumerated.
प्रसंख्यातुं बहुत्वाच् च पुत्रपौत्रम् अनन्तकम् स्वर्भानोस् तु प्रभा कन्या पुलोम्नस् तु शची सुता
Because of their vast numbers, the sons and grandsons cannot be counted; Prabhā was the daughter of Svarbhānu, and Śacī was the daughter of Pulomā.
उपदीप्तिर् हयशिराः शर्मिष्ठा वार्षपर्वणी पुलोमा कालिका चैव वैश्वानरसुते उभे
Upadīpti, Hayaśirā, Śarmiṣṭhā, Vārṣaparvaṇī, Pulomā, and Kālikā—both were daughters of Vaiśvānaras.
बह्वपत्ये महापत्ये मरीचेस् तु परिग्रहः तयोः पुत्रसहस्राणि षष्टिर् दानवनन्दनाः
With many children and great offspring, Marīci had wives; from them, sixty thousand sons were born, delight of the Dānavas.
चतुर्दशशतान् अन्यान् हिरण्यपुरवासिनः मरीचिर् जनयाम् आस महता तपसान्वितः
Another fourteen hundred residents of Hiraṇyapura were begotten by Marīci, endowed with great austerity.
पौलोमाः कालकेयाश् च दानवास् ते महाबलाः अवध्या देवतानां हि हिरण्यपुरवासिनः
Paulomās and Kālakeyas, those mighty Dānavas, were invincible to the gods—the residents of Hiraṇyapura.
पितामहप्रसादेन ये हताः सव्यसाचिना ततो ऽपरे महावीर्या दानवास् त्व् अतिदारुणाः
By the grace of the Grandfather, those slain by Savyasācin were destroyed; thereafter, other Dānavas of immense strength, exceedingly fierce, remained.
सिंहिकायाम् अथोत्पन्ना विप्रचित्तेः सुतास् तथा दैत्यदानवसंयोगाज् जातास् तीव्रपराक्रमाः
Then, in Simhika, sons were born to Viprachitti; likewise, from the union of Daityas and Danavas, children of fierce valor were produced.
सैंहिकेया इति ख्यातास् त्रयोदश महाबलाः वंश्यः शल्यश् च बलिनौ नलश् चैव तथा बलः
They are known as the Simhikeyas, thirteen in number, mighty in strength: Vamsha, Shalya, the powerful Nala, and also Bala.
वातापिर् नमुचिश् चैव इल्वलः स्वसृमस् तथा अञ्जिको नरकश् चैव कालनाभस् तथैव च
Vātāpi, Namuchi, Ilvala, and his sister, Anjika, Naraka, and Kālanābha likewise.
सरमानस् तथा चैव स्वरकल्पश् च वीर्यवान् एते वै दानवाः श्रेष्ठा दनोर् वंशविवर्धनाः
Saramāna, Svarakalpa the mighty; these are the foremost Danavas, enhancers of Danu's lineage.
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः संह्रादस्य तु दैत्यस्य निवातकवचाः कुले
Their sons and grandsons numbered in the hundreds and thousands; among them, the Nivātakavachas arose in the clan of the Daitya Saṃhrāda.
समुत्पन्नाः सुमहता तपसा भावितात्मनः तिस्रः कोट्यः सुतास् तेषां मणिवत्यां निवासिनः
Born through great austerity by those of purified spirit, three crores of sons resided in Maṇivati.
अवध्यास् ते ऽपि देवानाम् अर्जुनेन निपातिताः षट् सुताः सुमहाभागास् ताम्रायाः परिकीर्तिताः
They too were invulnerable to the gods, yet were slain by Arjuna; six illustrious sons of Tāmrā are mentioned.
क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका क्रौञ्ची तु जनयाम् आस उलूकप्रत्युलूककान्
Krauñcī, Śyenī, Bhāsī, Sugrīvī, Śucigṛdhrikā; Krauñcī gave birth to owls and their kin.
श्येनी श्येनांस् तथा भासी भासान् गृध्रांश् च गृध्र्य् अपि शुचिर् औदकान् पक्षिगणान् सुग्रीवी तु द्विजोत्तमाः
Śyenī produced hawks, Bhāsī produced herons, Gṛdhrī produced vultures; Śuci gave rise to aquatic birds, and Sugrīvī to the best of twice-born birds.
अश्वान् उष्ट्रान् गर्दभांश् च ताम्रावंशः प्रकीर्तितः विनतायास् तु द्वौ पुत्रौ विख्यातौ गरुडारुणौ
Horses, camels, and asses are said to belong to Tāmrā's lineage; Vinatā had two renowned sons, Garuḍa and Aruṇa.
गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्मणा सुरसायाः सहस्रं तु सर्पाणाम् अमितौजसाम्
Garuḍa, the foremost among those who fly, fierce in his own deeds; Surasā had a thousand serpents of immense energy.
अनेकशिरसां विप्राः खचराणां महात्मनाम् काद्रवेयास् तु बलिनः सहस्रम् अमितौजसः
O Brahmins, among the Kadru lineage, there were a thousand powerful serpents, many with multiple heads, moving through the sky, possessed of great souls.