चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति शतशो ऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि
A mind corrupted within is not purified by bathing at tīrthas, even if washed hundreds of times with water, like an impure wine vessel.
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम्
Neither tīrthas, nor gifts, nor vows, nor hermitages purify one whose intent is wicked, whose taste is for deceit, and whose senses are uncontrolled.
इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा
Wherever a man dwells, having brought his senses under control, there is Kurukṣetra, Prayāga, and Puṣkara.
तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै
Therefore, listen as I shall speak, O best of sages, of the tīrthas and sacred places upon the earth, briefly, as they truly are.
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च
Even in a hundred years, it is not possible to describe in detail the first holy place Puṣkara and also Naimiṣāraṇya.
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च
I will also speak of Prayāga, Dharmāraṇya, O best of twice-born, Dhenuka, Campakāraṇya, and likewise Saindhavāraṇya.
पुण्यं च मगधारण्यं दण्डकारण्यम् एव च गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा
Also the sacred Magadhāraṇya, Daṇḍakāraṇya, Gayā, Prabhāsa, the glorious holy place, and the divine Kanakhala.
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् लोहाकुलं सकेदारं मन्दरारण्यम् एव च
Bhṛgutuṅga, Hiraṇyākṣa, Bhīmāraṇya, Kuśasthalī, Lohākula, Sakedāra, and also Mandarāraṇya.
महाबलं कोटितीर्थं सर्वपापहरं तथा रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्
Mahābala, Koṭitīrtha, which removes all sins, Rūpatīrtha, Śūkarava, and Cakratīrtha of great merit.
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च
Yogatīrtha, Somatīrtha, the holy place Sāhoṭaka, the sacred Kokāmukha, and also Badarī mountain.
सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा
Somatīrtha, Tuṅgakūṭa, the holy place Skandāśrama, Koṭitīrtha, Agnipada, and also Pañcaśikha.
धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च
Dharmodbhava, Koṭitīrtha, the holy place Bādhapramocana, Gaṅgādvāra, Pañcakūṭa, and also Madhyakesara.
चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च
Cakraprabha, Mataṅga, the renowned Kruśadaṇḍa, Damṣṭrākuṇḍa, Viṣṇutīrtha, and also Sārvakāmika.
तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा
The holy place Matsyatila, the splendid Badarī, Brahmakuṇḍa, Vahnikuṇḍa, and also Satyapada.
चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम् मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी
Catuḥsrota, Catuḥśṛṅga mountain with twelve streams, Mānasā, Sthūlaśṛṅga, Sthūladaṇḍa, and also Urvaśī.
लोकपालं मनुवरं सोमाह्वशैलम् एव च सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्
Lokapāla, Manuvara, Somāhva mountain, Sadāprabha, Merukuṇḍa, and the holy place Somābhiṣecana.
महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् सप्तधारैकधारं च तीर्थं चामरकण्टकम्
Mahāsrota, Koṭaraka, Pañcadhāra, Tridhāraka, Saptadhāra, Ekadhāra, and the holy place Cāmarakaṇṭaka.
शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम् बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा
Śālagrāma, Cakratīrtha, the unsurpassed Koṭidruma, Bilvaprabha, Devahrada, and also Viṣṇuhrada.
शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा अग्निप्रभं च पुंनागं देवप्रभम् अनुत्तमम्
Śaṅkhaprabha, Devakuṇḍa, the holy place Vajrāyudha, Agniprabha, Puṃnāga, and the unsurpassed Devaprabha.
विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा
Vidyādhara, with Gandharvas, the glorious holy place, Brahmā's lake, Sātīrtha, the place called Lokapāla, and also Maṇipuragiri.
तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा मलव्यं गोप्रभावं च गोवरं वटमूलकम्
The holy place Pañcahrada, the sacred Piṇḍāraka, Malavya, Goprabhāva, Govara, and Vaṭamūlaka.
स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम्
Snānadaṇḍa, Prayāga, the secret Viṣṇupada, Kanyāśrama, Vāyukuṇḍa, and the excellent Jambūmārga.
गभस्तितीर्थं च तथा ययातिपतनं शुचि कोटितीर्थं भद्रवटं महाकालवनं तथा
Gabhasti Tirtha, as well as Yayati Patana, Shuci, Koti Tirtha, Bhadravata, and also the great forest of Mahakala.
नर्मदातीर्थम् अपरं तीर्थवज्रं तथार्बुदम् पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम्
Another Narmada Tirtha, Tirtha Vajra, Arbuda, Pingutirtha, Savashishtha, and the Tirtha called Prithasangama.
तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम्
The Tirtha named Daurvasika, the auspicious Pinjaraka, Rishi Tirtha, Brahmatunga, Vasu Tirtha, and Kumarika.
शक्रतीर्थं पञ्चनदं रेणुकातीर्थम् एव च पैतामहं च विमलं रुद्रपादं तथोत्तमम्
Shakra Tirtha, Panchanada, Renuka Tirtha, the ancestral (Pitamaha) pure Tirtha, and the excellent Rudrapada.
मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् यजनं याजनं चैव तथैव ब्रह्मवालुकम्
Manimatta, Kamakhya, Krishna Tirtha, Kushavila, Yajana, Yajana itself, and likewise Brahmavaluka.
पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा
Pushpanyasa, Pundarika, Manipura, the northern region, Dirghasattra, Hayapada, and also the Tirtha called Anashana.
गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदम् एव च वस्त्रापदं दारुवलं छायारोहणम् एव च
The source of the Ganga, the source of Shiva, the source of Narmada, Vastrapada, Daruvala, and also Chhayarohana.
सिद्धेश्वरं मित्रवलं कालिकाश्रमम् एव च वटावटं भद्रवटं कौशाम्बी च दिवाकरम्
Siddheshvara, Mitravala, Kalikashrama, Vatavata, Bhadravata, Kaushambi, and Divakara.