प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः तथैवेक्षुरसोदेन परिवेषानुकारिणा
Plakṣa Island is surrounded, in the same measure as Plakṣa Island itself, by an ocean of sugarcane juice, encircling it in a similar fashion.
इत्य् एतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः संक्षेपेण मया भूयः शाल्मलं तं निबोधत
Thus, O best of sages, Plakṣa Island has been described to you in brief by me; now, listen further about Śālmalī Island.
शाल्मलस्येश्वरो वीरो वपुष्मांस् तत्सुता द्विजाः तेषां तु नाम संज्ञानि सप्तवर्षाणि तानि वै
The lord of Śālmalī is Vīra, who is radiant; his sons, O twice-born ones, are seven in number, and their names are as follows.
श्वेतो ऽथ हरितश् चैव जीमूतो रोहितस् तथा वैद्युतो मानसश् चैव सुप्रभश् च द्विजोत्तमाः
Śveta, Harita, Jīmūta, Rohita, Vaidyuta, Mānasa, and Suprabha—these, O best of twice-born, are their names.
शाल्मनश् च समुद्रो ऽसौ द्वीपेनेक्षुरसोदकः विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः
The ocean of Śālmalī, filled with sugarcane juice, surrounds the island on all sides, being twice its breadth.
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः वर्षाभिव्यञ्जकास् ते तु तथा सप्तैव निम्नगाः
There also are seven mountains, known as sources of jewels, and seven rivers, each marking a region.
कुमुदश् चोन्नतश् चैव तृतीयस् तु बलाहकः द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः
Kumuda and Unnata are the first two; the third is Balāhaka; Droṇa, where great medicinal herbs grow, is the fourth mountain.
कङ्कस् तु पञ्चमः षष्ठो महिषः सप्तमस् तथा ककुद्मान् पर्वतवरः सरिन्नामान्य् अतो द्विजाः
Kaṅka is the fifth, Mahiṣa the sixth, and Kakudmat, the best of mountains, is the seventh; now, O twice-born, hear the names of the rivers.
श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी निवृत्तिः सप्तमी तासां स्मृतास् ताः पापशान्तिदाः
Śroṇī, Toyā, Vitṛṣṇā, Candrā, Śukrā, Vimocanī, and Nivṛtti are the seven rivers, remembered as givers of relief from sin.
श्वेतं च लोहितं चैव जीमूतं हरितं तथा वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम्
Śveta, Lohita, Jīmūta, Harita, Vaidyuta, Mānasa, and the seventh named Suprabha—these are the regions.
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च वर्णाश् च शाल्मले ये च वसन्त्य् एषु द्विजोत्तमाः
These seven regions are inhabited by the four social classes, O best of twice-born, and those who dwell in Śālmalī belong to these divisions.
कपिलाश् चारुणाः पीताः कृष्णाश् चैव पृथक् पृथक् ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव यजन्ति तम्
Kapila, Āruṇa, Pīta, and Kṛṣṇa—each distinct—are the Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras, who worship him.
भगवन्तं समस्तस्य विष्णुम् आत्मानम् अव्ययम् वायुभूतं मखश्रेष्ठैर् यज्वानो यज्ञसंस्थितम्
They worship the Blessed Lord Viṣṇu, the imperishable soul of all, present as the wind, established in sacrifice by the best of sacrificers.
देवानाम् अत्र सांनिध्यम् अतीव सुमनोहरे शाल्मलिश् च महावृक्षो नामनिर्वृत्तिकारकः
Here, the presence of the gods is exceedingly delightful; and the great tree Śālmalī brings about the fulfillment of names.
एष द्वीपः समुद्रेण सुरोदेन समावृतः विस्ताराच् छाल्मलेश् चैव समेन तु समन्ततः
This island is surrounded by the ocean of Suroda, equal in extent to Śālmalī on all sides.
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः
The ocean of Suroda is encircled on all sides by Kuśa Island, which is twice the breadth of Śālmalī.
ज्योतिष्मतः कुशद्वीपे शृणुध्वं तस्य पुत्रकान् उद्भिदो वेणुमांश् चैव स्वैरथो रन्धनो धृतिः
Hear now of the sons of Jyotiṣmat in Kuśa Island: Udbhida, Veṇumān, Svairatha, Randhana, and Dhṛti.
प्रभाकरो ऽथ कपिलस् तन्नाम्ना वर्षपद्धतिः तस्यां वसन्ति मनुजैः सह दैतेयदानवाः
Prabhākara and Kapila are also among them; these are the names of the regions, and in them dwell humans together with Daityas and Dānavas.
तथैव देवगन्धर्वा यक्षकिंपुरुषादयः वर्णास् तत्रापि चत्वारो निजानुष्ठानतत्पराः
In the same way, the gods, gandharvas, yakshas, kimpurushas, and others—there too, the four castes are present, each devoted to their own prescribed duties.
दमिनः शुष्मिणः स्नेहा मान्दहाश् च द्विजोत्तमाः ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चानुक्रमोदिताः
Disciplined, energetic, affectionate, and slow-minded, O best of twice-born, the Brahmins, Kshatriyas, Vaishyas, and Shudras are mentioned in order.
यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनार्दनम्
Because they perform the actions as previously described, and due to the exhaustion of their own rights, there in Kushadvipa they worship Janardana in the form of Brahma.
यजन्तः क्षपयन्त्य् उग्रम् अधिकारफलप्रदम् विद्रुमो हेमशैलश् च द्युतिमान् पुष्टिमांस् तथा
By offering sacrifices, they dispel intense results that grant the fruits of their rights; Vidruma, Hemashaila, Dyutiman, and Pushtiman are thus named.
कुशेशयो हरिश् चैव सप्तमो मन्दराचलः वर्षाचलास् तु सप्तैते द्वीपे तत्र द्विजोत्तमाः
Kusheshaya and Hari, as well as the seventh, Mandarachala—these seven are the mountain ranges in that island, O best of twice-born.
नद्यश् च सप्त तासां तु वक्ष्ये नामान्य् अनुक्रमात् धूतपापा शिवा चैव पवित्रा संमतिस् तथा
And there are seven rivers; I will declare their names in order: Dhutapapa, Shiva, Pavitra, and Sammati likewise.
विद्युद् अम्भो मही चान्या सर्वपापहरास् त्व् इमाः अन्याः सहस्रशस् तत्र क्षुद्रनद्यस् तथाचलाः
Vidyut, Ambha, and Mahī are others, all removing every sin; besides these, there are thousands of small rivers and streams.
कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम् तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः
In Kushadvipa, Kushastamba is remembered by that name; by its measure, that island is surrounded by the ocean of clarified butter.
घृतोदश् च समुद्रो वै क्रौञ्चद्वीपेन संवृतः क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान्
And the ocean of clarified butter is encircled by Kraunchadvipa; O best of sages, listen now about the great Kraunchadvipa.
कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः
From the extent of Kushadvipa, Kraunchadvipa is twice its size; in Kraunchadvipa, the seven sons of Dyutiman, the great-souled, reside.
तन्नामानि च वर्षाणि तेषां चक्रे महामनाः कुशगो मन्दगश् चोष्णः पीवरो ऽथान्धकारकः
Their names and the regions are established by the great-minded: Kushaga, Mandaga, Ushna, Pivara, and Andhakaraka.
मुनिश् च दुन्दुभिश् चैव सप्तैते तत्सुता द्विजाः तत्रापि देवगन्धर्वसेविताः सुमनोरमाः
Muni and Dundubhi are also among them; these seven are his sons, O twice-born. There too, served by gods and gandharvas, are delightful regions.