उग्रसेनस् तु तच् छ्रुत्वा तथैवानकदुन्दुभिः देवकी रोहिणी चैव विविशुर् जातवेदसम्
Hearing of this, Ugrasena, Anakadundubhi, Devakī, and Rohiṇī likewise entered the sacred fire.
ततो ऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि निश्चक्राम जनं सर्वं गृहीत्वा वज्रम् एव च
Then Arjuna, having performed the funeral rites for them according to rule, departed, taking all the people and Vajra with him.
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः वज्रं जनं च कौन्तेयः पालयञ् शनकैर् ययौ
The wives of Krishna, by the thousands, departed from Dvārakā; Kaunteya, protecting Vajra and the people, went forth slowly.
सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता स्वर्गं जगाम भो विप्राः पारिजातश् च पादपः
The Sudharmā assembly hall, which Krishna had brought to the mortal world, O Brahmins, went to heaven, as did the Pārijāta tree.
यस्मिन् दिने हरिर् यातो दिवं संत्यज्य मेदिनीम् तस्मिन् दिने ऽवतीर्णो ऽयं कालकायः कलिः किल
On the very day when Hari departed, leaving the earth for heaven, on that day, it is said, Kali, the embodiment of Time, descended.
प्लावयाम् आस तां शून्यां द्वारकां च महोदधिः यदुश्रेष्ठगृहं त्व् एकं नाप्लावयत सागरः
The great ocean flooded that empty Dvārakā, but did not flood the single house of the chief of the Yadus.
नातिक्रामति भो विप्रास् तद् अद्यापि महोदधिः नित्यं संनिहितस् तत्र भगवान् केशवो यतः
Even today, O Brahmins, the great ocean does not cross that place, for the Blessed Keśava is eternally present there.
तद् अतीव महापुण्यं सर्वपातकनाशनम् विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते
That place is supremely holy, destroyer of all sins, filled with the play of Viṣṇu; seeing it, one is freed from sin.
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते चकार वासं सर्वस्य जनस्य मुनिसत्तमाः
Partha dwelt in the land of the Five Rivers, abundant in grain and wealth, O best of sages, together with all the people.
ततो लोभः समभवत् पार्थेनैकेन धन्विना दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः
Then greed arose in Partha, the lone archer, upon seeing women being led away by bandits whose leaders had been slain.
ततस् ते पापकर्माणो लोभोपहतचेतसः आभीरा मन्त्रयाम् आसुः समेत्यात्यन्तदुर्मदाः
Then those evil-doers, their minds overcome by greed, the Abhiras, gathered and conspired together, exceedingly arrogant.
अयम् एको ऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् नयत्य् अस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम्
This lone Arjuna, armed with his bow, is leading away the women whose chiefs have been killed, surpassing us; shame, let force be used.
हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् कर्णादींश् च न जानाति बलं ग्रामनिवासिनाम्
Having slain Bhishma, Drona, Jayadratha, and Karna and others, he is filled with pride, yet he does not know the strength of the villagers.
बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश् चैव विशेषतः सर्वान् एवावजानाति किं वो बहुभिर् उत्तरैः
He scorns all the other men, especially the strongest among the villagers; what use are many words to you?
ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः सहस्रशो ऽभ्यधावन्त तं जनं निहतेश्वरम् ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव
Then the bandits, wielding clubs and hurling stones, in their thousands, rushed upon those people whose leaders had been slain; then Kaunteya withdrew and spoke to the Abhiras, as if laughing.
निवर्तध्वम् अधर्मज्ञा यदीतो न मुमूर्षवः
Turn back, you who do not know righteousness, if you do not wish to die.
अवज्ञाय वचस् तस्य जगृहुस् ते तदा धनम् स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम्
Disregarding his words, they seized the wealth and the women from Kaunteya, who was guarded by Vishvaksena.
ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं युधि आरोपयितुम् आरेभे न शशाक स वीर्यवान्
Then Arjuna, mighty in battle, tried to string his divine bow Gandiva, ageless in war, but he could not.
चकार सज्जं कृच्छ्रात् तु तद् अभूच् छिथिलं पुनः न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः
With difficulty he made it ready, but again it became slack; Pandava did not recall the weapons, though he pondered.
शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः न भेदं ते परं चक्रुर् अस्ता गाण्डीवधन्वना
Partha joyfully released arrows at them, but the rest did not cause any harm; the arrows from Gandiva's bow had no effect.
वह्निना चाक्षया दत्ताः शरास् ते ऽपि क्षयं ययुः युध्यतः सह गोपालैर् अर्जुनस्याभवत् क्षयः
Even the inexhaustible arrows given by Agni perished; fighting alongside the cowherds, Arjuna suffered defeat.
अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् यन् मया शरसंघातैः सबला भूभृतो जिताः
Kaunteya reflected on Krishna's power, thinking, 'By my showers of arrows, kings with their armies were conquered.'
मिषतः पाण्डुपुत्रस्य ततस् ताः प्रमदोत्तमाः अपाकृष्यन्त चाभीरैः कामाच् चान्याः प्रवव्रजुः
As the Pandava watched, those excellent women were dragged away by the Abhiras, and others departed of their own will.
ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः जघान दस्यूंस् ते चास्य प्रहाराञ् जहसुर् द्विजाः
When his arrows were exhausted, Dhananjaya struck the bandits with the tip of his bow; the twice-born laughed at his blows.
पश्यतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः जग्मुर् आदाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः
Even as Partha watched, the women of the Vrishni and Andhaka clans were taken away by the mlecchas all around, O best of sages.
ततः स दुःखितो जिष्णुः कष्टं कष्टम् इति ब्रुवन् अहो भगवता तेन मुक्तो ऽस्मीति रुरोद वै
Then Jishnu, distressed, cried out, 'Alas, alas!' saying, 'Ah, by the Blessed One I have been forsaken,' and he wept.
तद् धनुस् तानि चास्त्राणि स रथस् ते च वाजिनः सर्वम् एकपदे नष्टं दानम् अश्रोत्रिये यथा
That bow, those weapons, that chariot, and those steeds—all were lost in a single instant, just as a gift is lost when given to one unlearned in the Vedas.
अहो चाति बलं दैवं विना तेन महात्मना यद् असामर्थ्ययुक्तो ऽहं नीचैर् नीतः पराभवम्
Alas, how powerful is fate! Because of that great soul's absence, I have become powerless and have been brought low, defeated by those of lesser worth.
तौ बाहू स च मे मुष्टिः स्थानं तत् सो ऽस्मि चार्जुनः पुण्येनेव विना तेन गतं सर्वम् असारताम्
Those arms, that fist of mine, that station, and I myself as Arjuna—all, without him, have lost their merit, just as virtue departs when its cause is gone.
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृतं ध्रुवम् विना तेन यद् आभीरैर् जितो ऽहं कथम् अन्यथा
My Arjuna-hood and Bhima's might—surely, both were due to him; without him, how else could I have been defeated by the Abhiras?