तेषां सन्ततिविच्छेदो न कदाचिद्भविष्यति मर्त्यलोके सुखं स्थित्वा यास्यंति शिवमंदिरम्
यः कुक्कुटीव्रतवरं प्लवगीसमेतं चक्रे चराचरगुरुं हृदये निधाय
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक्कुटीमर्कटीव्रतवर्णनं नाम षट्चत्वारिंशोऽध्यायः
उभयसप्तमीव्रतवर्णनम् माघमासात्समारभ्य शुक्लपक्षे युधिष्ठिर
सप्तम्यां कुरु संकल्पमहोरात्रे व्रते नृप
अष्टम्यां भोजयेद्विप्रांस्तिलपिष्टं गुडौदनम्
सप्तम्यां फाल्गुने मासि सूर्यमित्यभिपूजयेत्
सप्तम्यां चैत्रमासे तु वेदांशुमभिपूजयेत्
वैशाखस्य तु सप्तम्यां धातारमभिपूजयेत्
सप्तम्यां ज्येष्ठमासस्य इन्द्र इत्यभिपूजयेत्
आषाढमासे सप्तम्यां पूजयित्वा दिवाकरम्
सप्तम्यां श्रावणे मासि मातापि नाम पूजयेत्
रविं प्रौष्ठपदे मासे सप्तम्यामर्चयेच्छुचिः ।।। 4.47.
आश्वयुक्छुक्लसप्तम्यां सवितारं प्रपूज्य च
कार्तिके शुक्लसप्तम्यां दिनेशं सप्तवाह नम्
भानुं मार्गसिते पक्षे पूजयित्वा विधानतः
भास्करं पौषमासे तु पूजयित्वा यथाविधि
तदेव कृष्णसप्तम्यां नाम संपूजयेद्बुधः पश्चात्समाप्ते नियमे सूर्ययागं समाचरेत्
शुचिर्भूमौ समे देशे लेपयेद्रक्तच न्दनैः
सिंदूरगैरिकाभ्यां च सूर्यमण्डलमालिखेत् सम्पूज्य दद्यान्नैवेद्यं विचित्रं घृतपाचितम्
पुरतः स्थापयेत्कुम्भान्सहिण्यान्नसंयुतान्
आकृष्णेनेति मंत्रेण समिद्भिश्चार्कसंभवैः
ततस्तु दक्षिणा देया ब्राह्मणानां युधिष्ठिर 4.47.
द्वादशात्र प्रशंसंति गावो वस्त्रान्विताः शुभाः एवं विसृज्य तान्विप्रान्स्वयं भुञ्जीत वाग्यतः
य एवं कुरुते पार्थ सप्तमीव्रतमुत्तमम्
सप्तम्यां सोपवासस्तु भानोः पश्यंति ये मुखम्
व्रतमेतन्महाराज सर्वाशुभविनाशनम् सूर्यलोकप्रदं चांते प्राहैवं नारदो मुनिः
ये सप्तमीमुपवसंति सितासितां च नामाक्षरैरहिमदीधितिमर्चयंति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उभयसप्तमीव्रतवर्णनं नाम सप्तचत्वारिंशोऽध्यायः
कल्याणसप्तमीव्रतवर्णनम् भगवन्दुर्गसंसारसागरोत्तारकारकम्