परितो मुद्रिका रौप्या सौवर्णीं च युधिष्ठिर
सोहालकानि कांसारं दद्याद्भुञ्जीत च स्वयम्
सम्पूज्य सखि दुष्प्राप्यं त्रैलोक्येऽपि न विद्यते
स मया पालितो भक्त्या ततोऽहं सुस्थिता सखि
तेन सन्ततिविच्छिन्ना राज्येपि सति दुःखिता
अर्द्धं तव प्रदास्यामि तस्य धर्मस्य सुव्रते
इत्युक्त्वा प्रतिजग्राह व्रतदानफलं ततः
व्रतस्यास्य प्रभावेण सपुत्रा त्वं च देवकि
इत्येवं कथयित्वास्यै लोमशो मुनिपुंगवः 4.46.
ये चरिष्यंति मनुजा व्रतमेतद्युधिष्ठिर
तेषां सन्ततिविच्छेदो न कदाचिद्भविष्यति मर्त्यलोके सुखं स्थित्वा यास्यंति शिवमंदिरम्
यः कुक्कुटीव्रतवरं प्लवगीसमेतं चक्रे चराचरगुरुं हृदये निधाय
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कुक्कुटीमर्कटीव्रतवर्णनं नाम षट्चत्वारिंशोऽध्यायः
उभयसप्तमीव्रतवर्णनम् माघमासात्समारभ्य शुक्लपक्षे युधिष्ठिर
सप्तम्यां कुरु संकल्पमहोरात्रे व्रते नृप
अष्टम्यां भोजयेद्विप्रांस्तिलपिष्टं गुडौदनम्
सप्तम्यां फाल्गुने मासि सूर्यमित्यभिपूजयेत्
सप्तम्यां चैत्रमासे तु वेदांशुमभिपूजयेत्
वैशाखस्य तु सप्तम्यां धातारमभिपूजयेत्
सप्तम्यां ज्येष्ठमासस्य इन्द्र इत्यभिपूजयेत्
आषाढमासे सप्तम्यां पूजयित्वा दिवाकरम्
सप्तम्यां श्रावणे मासि मातापि नाम पूजयेत्
रविं प्रौष्ठपदे मासे सप्तम्यामर्चयेच्छुचिः ।।। 4.47.
आश्वयुक्छुक्लसप्तम्यां सवितारं प्रपूज्य च
कार्तिके शुक्लसप्तम्यां दिनेशं सप्तवाह नम्
भानुं मार्गसिते पक्षे पूजयित्वा विधानतः
भास्करं पौषमासे तु पूजयित्वा यथाविधि
तदेव कृष्णसप्तम्यां नाम संपूजयेद्बुधः पश्चात्समाप्ते नियमे सूर्ययागं समाचरेत्
शुचिर्भूमौ समे देशे लेपयेद्रक्तच न्दनैः
सिंदूरगैरिकाभ्यां च सूर्यमण्डलमालिखेत् सम्पूज्य दद्यान्नैवेद्यं विचित्रं घृतपाचितम्