कुक्कुटीमर्कटीव्रतवर्णनम् सोर्चितो वसुदेवेन देवक्या च युधिष्ठिर
उपविष्टः कथाः पुण्याः कथयित्वा मनोहराः
कंसे हते मृताः पुत्राः पुत्रा जाताः पुन. पुनः
यथा चन्द्रमुखी दीप्तिर्बभूव मृतपुत्रिका त्वमेव देवकि तथा भविष्यसि न संशयः
चरितं किं व्रतवरं बहुसंततिकारकम्
तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी पुरा
पुरोहितस्य तस्यैव पत्न्यासीन्मानमानिका
अथापि तेपि मित्रिण्यौ स्नानार्थं सरयूजले
स्नात्वा तु मंडल चक्रुः स्वपतेर्व्यक्तरूपिणः 4.46.
गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि
ता ऊचुः शङ्करोऽस्माभिः पार्वत्या सह पूजितः
धारामयमिदं तावद्यावत्प्राणावधारणम्
तस्यैव समयं तत्र बद्ध्वा दोर्भ्यां तु दोरकैः
कालेन महता यातं तस्या वै तद्व्रत नृप
मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी
तथैव जाते मित्रिण्यौ पूर्वजातिस्मरे तथा
तद्दिने तत्र संप्राप्ते पुनः काले न ते मृते
राज्ञो जाया बभूवाथ पृध्वीनाथस्य वा पुनः
अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका 4.46.
जातिस्मरा पद्महस्ता अष्टपुत्रा मृतप्रजा
तत्रेश्वरी पुत्रमेकं प्रसूता चैव रोगिणम्
ततस्तां भूषणां द्रष्टुमथैषा पुत्रदुःखिता अमुक्ताभरणा नित्यं स्वभावेनैव भूषिता
तां दृष्ट्वा पुत्रिणीं भव्यां प्रजज्वालेश्वरी रुषा
चिन्तयामास सा रात्र्यां तस्याः पुत्रवधं प्रति
कदाचिदाहूय सखीं भूषणां पुरतः स्थिताम्
येन ते निहताः पुत्राः पुनर्जीवन्ति नो भयम् शोभसेऽभ्यधिकं भद्रे विद्युत्सौदामिनीव हि
स्नात्वा शिवमंडलके लेखयित्वा सहांबिकम्
भक्त्या संपूज्य समयं कुर्याद्बद्ध्वा करे गुणम्
इत्येवं समयं कृत्वा ततःप्रभृति दोरकम् 4.46.
मंडकं वेष्टिकां दयाच्छ्वश्रूपक्षे द्विजे तु वा