( इति प्रतिग्रहमंत्र) एवं दत्त्वा नरो राजन्सूर्यवद्दिवि राजते
दातव्यं जयसप्तम्यां तदारभ्य दिनेदिने
गोधूमचूर्णजनितं यवचूर्णजं वा आदित्यमंडलमखण्डगुडाद्यपूर्णम्
इति श्रीभविष्ये महापुराण उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आदित्यमंडलविधिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
त्रयोदशवर्ज्यसप्तमीव्रतवर्णनम् तामेकां वद मे देव सप्तमीं धनसौख्यदाम्
श्रीकृष्ण उवाच भानोर्दिने सिते पक्षे अतीते चोत्तरायणे
सव्रीहिकान्यवतिलान्सह माषमुद्गैर्गोधूममांसमधुमैथुनकांस्यपात्रम्
देवान्मुनीन्पितृगणान्सजलाञ्जलीभिः संतर्प्य पूज्य गगनांगणहस्तभुक्तान्
यानि त्रयोदश जनैरिह वर्जितानि द्रव्याणि तानि परिहृत्य परिद्विषष्ट्या
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे त्रयोदशवर्ज्यसप्तमीव्रतं नाम पंचचत्वारिंशोऽध्यायः
कुक्कुटीमर्कटीव्रतवर्णनम् सोर्चितो वसुदेवेन देवक्या च युधिष्ठिर
उपविष्टः कथाः पुण्याः कथयित्वा मनोहराः
कंसे हते मृताः पुत्राः पुत्रा जाताः पुन. पुनः
यथा चन्द्रमुखी दीप्तिर्बभूव मृतपुत्रिका त्वमेव देवकि तथा भविष्यसि न संशयः
चरितं किं व्रतवरं बहुसंततिकारकम्
तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी पुरा
पुरोहितस्य तस्यैव पत्न्यासीन्मानमानिका
अथापि तेपि मित्रिण्यौ स्नानार्थं सरयूजले
स्नात्वा तु मंडल चक्रुः स्वपतेर्व्यक्तरूपिणः 4.46.
गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि
ता ऊचुः शङ्करोऽस्माभिः पार्वत्या सह पूजितः
धारामयमिदं तावद्यावत्प्राणावधारणम्
तस्यैव समयं तत्र बद्ध्वा दोर्भ्यां तु दोरकैः
कालेन महता यातं तस्या वै तद्व्रत नृप
मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी
तथैव जाते मित्रिण्यौ पूर्वजातिस्मरे तथा
तद्दिने तत्र संप्राप्ते पुनः काले न ते मृते
राज्ञो जाया बभूवाथ पृध्वीनाथस्य वा पुनः
अग्निमीला द्विजस्याभूद्भार्या भूषणनामिका 4.46.
जातिस्मरा पद्महस्ता अष्टपुत्रा मृतप्रजा