मनोवाक्कायसंभूतमिह जन्मनि सिद्धिदम्
तस्मात्कर्तव्यमेवेह त्रिविधं कर्म साधकैः अतोऽन्यजन्मनि प्राप्तो यक्षत्वं तत्परो द्विजः
इत्युक्त्वा स तु वैतालः प्रसन्नवदनोऽभवत्
साधु साध्विति तं प्रोच्य सद्वाक्यैः समपूजयत् 3.2.17.
सुदक्षो नाम नृपतिर्वसन्कंबलके पुरे
न्यायवान्धर्मवाञ्छूरो दाता शिवपरायणः
तनया सुन्दरी तस्य नाम्ना धनवती शुभा
कियता चैव कालेन मोहिनी तत्सुताभवत्
तदा धनवती रंडा निधना पितुरंतिके
न्यायशर्मा द्विजः कश्चिद्ब्रह्मस्वस्यापहारकः
अकस्माद्वैश्यजा प्राप्ता तत्करं सा तदास्पृशत्
हा रामकृष्ण प्रद्युम्नानिरुद्धेति पुनःपुनः
द्विज आह च विप्रोऽहं त्र्यहं शूल्यां निरूपितः
श्रुत्वा धनवती तस्मा उद्वाह्य मोहिनीं सुताम् 3.2.18.
द्विजः प्राह शृणु व्यंगे यदा ते हृच्छयो भवेत्
इत्युक्त्वा मरणं प्राप्य यमलोकं गतो द्विजः
मातुर्गृहे तु सा नारी मोहिनी यौवनान्विता
के भोगाश्च किमाश्चर्यं को जागर्ति शयीत कः
इति श्लोकं द्विजानाह नोत्तरं च ददुर्द्विजाः
तामुवाच प्रसन्नात्मा शृणु मोहिनि सुंदरि शय्या च भूषणं ज्ञेयो भोगो ह्यष्टविधो बुधैः
अहन्यहनि भूतानि म्रियन्ते जनयन्ति च
यो विवेकं समासाद्य कुरुते कर्मसंग्रहम्
संसाराजगरं ज्ञात्वा वैराग्यं योऽकरोद्भुवि 3.2.18.
संकल्पाज्जायते कामस्ततो लोभः प्रजायते
जलप्रकृत्यां यो जातो रसो रसविकारवान्
रुद्रात्काल्यां समुद्भूतो मोहो हृदि च लोकहा
मिथ्यादृष्टिस्ततो जाता मोहस्य दयिताभवत्
तयोः सकाशात्संजातं दुःखं शोकसमन्वितम्
मानी शूरश्च चतुरोऽधिकारी गुणवान्सखा
तस्यै गर्भं च विप्रोऽसौ दत्त्वा स्वर्णं गृहीतवान्