अक्षोटैर्बदरैर्बिल्वैः करमर्दैः सबर्बरैः
पुष्पैर्धूपैः फलैः पत्रैर्मोदकैर्गुणकैः शुभैः
अन्यैः फलैश्च काम्यैश्च ऐक्षवैर्ग्रंथिवर्जितैः 4.43.
न विशेन्न च संजल्पेन्न च कश्चिद्वदेदपि
वसोर्धाराप्रदातव्या भानोर्गव्येन सर्पिषा
कुंकुमेन समालभ्य पुष्पधूपैश्च पूजयेत्
भानो भ्रास्करमार्तण्ड चण्डरश्मे दिवाकर
उपवासेन नक्तेन तथैवायाचितेन च
रोगी विमुच्यते रोगाद्दरिद्रः श्रियमाप्नुयात्
शुक्लपक्षे यदा पार्थ सादित्यसप्तमी भवेत्
भूमौ पलाशपत्रेषु स्नात्वा हुत्वा यथाविधि
मुद्गं श्रेष्ठाय विप्राय वाचकाय विशेषतः
उपोष्य विधिनानेन मन्त्रप्राशनपूजनेः 4.43.
अर्चनं वह्निकार्यं च शतमष्टोत्तरं नरः
सौवर्णं भास्करं पार्थ रुक्मपात्रगतं शुभम्
मन्त्रेणानेन विप्राय कर्मसिद्ध्यै द्विजातये
ममाद्य समीहितार्थप्रदो भव नमोनमः
श्राद्धानि पितृदेवानां शाश्वतीं तृप्तिमिच्छता
विजयो जायतेऽवश्यं यतीनां च नृणां तदा
एवमेषा तिथिः पार्थ इह कामप्रदा नृणाम्
दाता भोगी च चतुरो दीर्घायुर्नीरुजः सुखी
नारी वा कुरुते या तु सापि तत्पुण्यभागिनी
स्वर्ग्या समीहितसुखार्थफलप्रदा च या मृग्यते मुनिवरैः प्रवरा तिथीनाम् 4.43.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयसप्तमीव्रतकथनं नाम त्रिचत्वारिंशोऽध्यायः
आदित्यमण्डलविधिवर्णनम् आदित्यमंडलं नाम सर्वाशुभविनाशनम्
यवचूर्णेन शुभ्रेण कुर्याद्गोधूमजेन वा
संपूज्य भास्करं भक्त्या तदग्रे मंडलं शुभम्
मण्डलं तत्र संस्थाप्य रक्तवस्त्रैः सुपूजितम्
आदित्यतेजसोत्पन्नं राजतं विधिनिर्मितम्
(इति दानमंत्रः) कामदं धनदं धर्म्यं पुत्रदं सुखदं तव