यस्तु षष्ठ्यां नरो नक्तं कुर्याद्भारतसत्तम
श्रुत्वैवं दक्षिणां मासं गत्वा श्रद्धासमन्वितः। पूजयेद् देवदेवेशं स गत्वा शिवमंदिरम्
स्कन्दं गुहं शरवणोद्भवमादिदेवं शम्भोः सुतं सदयितं गिरिराजपुत्र्याः
विजयसप्तमीव्रतवर्णनम् किंफला नियमः कश्चिद्वद देवकिनन्दन
सप्तमी विजया नाम तत्र दत्तं महा फलम्
स्नानं दानं जपो होम उपवासस्तथैव च
प्रदक्षिणां यः कुरुते फलैः पुष्पै र्दिवाकरम्
प्रथमा नालिकेरैस्तु द्वितीया रक्तनागरैः
पञ्चमी वरकूष्माण्डैः षष्ठी पक्वैस्तु तेंदुकैः
मौक्तिकैः पद्मरागैश्च नीलैः कर्केतनैस्तथा
अक्षोटैर्बदरैर्बिल्वैः करमर्दैः सबर्बरैः
पुष्पैर्धूपैः फलैः पत्रैर्मोदकैर्गुणकैः शुभैः
अन्यैः फलैश्च काम्यैश्च ऐक्षवैर्ग्रंथिवर्जितैः 4.43.
न विशेन्न च संजल्पेन्न च कश्चिद्वदेदपि
वसोर्धाराप्रदातव्या भानोर्गव्येन सर्पिषा
कुंकुमेन समालभ्य पुष्पधूपैश्च पूजयेत्
भानो भ्रास्करमार्तण्ड चण्डरश्मे दिवाकर
उपवासेन नक्तेन तथैवायाचितेन च
रोगी विमुच्यते रोगाद्दरिद्रः श्रियमाप्नुयात्
शुक्लपक्षे यदा पार्थ सादित्यसप्तमी भवेत्
भूमौ पलाशपत्रेषु स्नात्वा हुत्वा यथाविधि
मुद्गं श्रेष्ठाय विप्राय वाचकाय विशेषतः
उपोष्य विधिनानेन मन्त्रप्राशनपूजनेः 4.43.
अर्चनं वह्निकार्यं च शतमष्टोत्तरं नरः
सौवर्णं भास्करं पार्थ रुक्मपात्रगतं शुभम्
मन्त्रेणानेन विप्राय कर्मसिद्ध्यै द्विजातये
ममाद्य समीहितार्थप्रदो भव नमोनमः
श्राद्धानि पितृदेवानां शाश्वतीं तृप्तिमिच्छता
विजयो जायतेऽवश्यं यतीनां च नृणां तदा
एवमेषा तिथिः पार्थ इह कामप्रदा नृणाम्