यः कश्चिदाचरेदेतद्भक्त्या ललितिकाव्रतम्
तन्नास्ति मानुषे लोके तस्य यन्नोपपद्यते
षष्ठ्यां जलांतरगता वरवंशपात्रे संगृह्य पूजयति या सिकताः क्रमेण
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललिताषष्ठीव्रतवर्णनं नामैकचत्वारिंशोऽध्यायः
कार्तिकेयपूजावर्णनम् पुण्या पापहरा धन्या शिवा शान्ता गृहप्रिया
निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत् स्नानदानादिकं कर्म तस्यामक्षयमुच्यते
यस्यां पश्यंति गांगेयं दक्षिणापथमाश्रितम्
तस्मादस्यां सोपवासः कुमारं स्वर्णसंभवम्
अपराह्णे ततः स्नात्वा समाचम्य यतव्रती
ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम्
चन्द्रमण्डलभूतानां भवभूतिपवित्रिता
एवं स्नात्वा समभ्यर्च्य भास्करं भुवनाधिप
देव सेनापते स्कन्द कार्त्तिकेय भवोद्भव
एभिर्न्नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ।।4.42.१
पार्श्वस्थौ पूजयेच्छागकुक्कुटौ स्वामिवल्लभौ
कृत्तिकाकटकं पार्श्वे संपूज्य स्कन्दवल्लभम्
एवं निर्वर्त्य विधिवत्फलमेवं युधिष्ठिर
नालिकेरं मातुलुंगं नारिंगं पनसं तथा
श्रीफलामलकं तद्वत्त्रपुसं कदलीफलम् अलाभे कलकालौघफलमद्यादतंद्रितः
प्रत्यक्षो हेमघटितश्छागो वा कुक्कुटोऽथवा
सेनायां स च संभूतः क्रौञ्चारिः षण्मुखो गुहः
छागप्रियश्शक्तिधरो द्वारो द्वादशमः स्मृतः
ब्राह्मणान्भोजयित्वादौ पश्चाद्भुञ्जीत वाग्यतः
कार्त्तिकेयं समभ्यर्च्य वासोभिर्भूषणैः सह 4.42.
संवत्सरविधिं कृत्वा जपं होमपुरस्कृतम्
एते विप्राः स्मृता दिव्या भौमास्त्वन्ये द्विजातयः
एवं यः कुरुते भक्त्या नरो योषिदथापि वा
सदैव पूजनीयस्तु कार्तिकेयो महीपते
संग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम्
तस्मात्सर्वप्रयत्नेन पूजयेच्छंकरात्मजम्