अनेन विधिना यस्तु कुर्यान्मंदारकं व्रतम्
इमामघौघपटलध्वांतसद्वर्तिदीपिकाम्
मंदारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम्
षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मंदारषष्ठीव्रतनिरूपणनाम चत्वारिंशोऽध्यायः
ललिताषष्ठीव्रतवर्णनम् योषित्सुवेषा सुभगा सर्वलोकमनोहरा
प्रातः स्नानं महानद्यां कृत्वा संगृह्य वालुकाम्
सोपवासा प्रयत्नेन देवीं तत्र प्रपूजयेत्
तत्र संस्थाप्य तां देवीं पुष्पैः संपूजयेन्नवैः
मंत्रेणानेन कुसुमैश्चंपकस्य सुशोभनैः नीलोत्पलं केतकीं च संगृह्य तगरं तथा
एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा
गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते
ललिते ललिते देवि सौख्यसौभाग्यदायिनि एवमभ्यर्च्य विधिना नैवेद्यं पुरतो न्यसेत्
कूष्मांडैः कर्कटीवृंतैः कर्कोटैः कारवेल्लकैः
सार्द्धं सगुडकैर्धूपैः सोहालककरंबकैः 4.41.
एवमभ्यर्च्य विधिवद्रात्रौ जागरणं ततः सखीभिः सहिता साध्वी तां रात्रीं प्रशमन्नयेत्
न च सम्मीलयेन्नेत्रे नारी यामचतुष्टयम्
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत्
तच्च दद्याद्द्विजेंद्राय नैवद्यादि नरोत्तम देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीम्
कुमारिका भोजनीया ब्राह्मणा दशपंच च ललिता प्रीतियुक्ताऽस्तु इत्युक्त्वा तान्विसर्जयेत्
यः कश्चिदाचरेदेतद्भक्त्या ललितिकाव्रतम्
तन्नास्ति मानुषे लोके तस्य यन्नोपपद्यते
षष्ठ्यां जलांतरगता वरवंशपात्रे संगृह्य पूजयति या सिकताः क्रमेण
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललिताषष्ठीव्रतवर्णनं नामैकचत्वारिंशोऽध्यायः
कार्तिकेयपूजावर्णनम् पुण्या पापहरा धन्या शिवा शान्ता गृहप्रिया
निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत् स्नानदानादिकं कर्म तस्यामक्षयमुच्यते
यस्यां पश्यंति गांगेयं दक्षिणापथमाश्रितम्
तस्मादस्यां सोपवासः कुमारं स्वर्णसंभवम्
अपराह्णे ततः स्नात्वा समाचम्य यतव्रती
ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम्