भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत्
व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः 4.39.
यथा फलकरो मासस्त्वद्भक्तानां सदा रवे
इमामनंतफलदां फलषष्ठीं करोति यः
सुरापानादिकं किञ्चिद्यदत्रामुत्र वा कृतम्
भूतान्भव्यांश्च पुरुषांस्तारयेदेकविंशतिम्
हैमं फलं सकमलं कलशं सिताया षष्ठीमुपोष्य विधिवद्द्विजपुंगवाय
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः
मंदारषष्ठीव्रतवर्णनम् सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम्
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः विप्रान्संपूज्य विधिवन्मंदारं प्राशयेन्निशि
ततः प्रभाते चोत्थाय कृतस्नानः पुनर्द्विजान्
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम्
पूज्य मंदारकुसुमैर्भास्करायेति पूर्वतः
दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते
पूष्णे ह्युत्तरतः पूज्य आनंदायेत्यतः परम्
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही
अनेन विधिना सर्वं सप्तम्यां मासिमासि च
एतदेव व्रतांते तु निधाय कलशोपरि 4.40.
नमो मंदारनाथाय मंदारभवनाय च
अनेन विधिना यस्तु कुर्यान्मंदारकं व्रतम्
इमामघौघपटलध्वांतसद्वर्तिदीपिकाम्
मंदारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम्
षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मंदारषष्ठीव्रतनिरूपणनाम चत्वारिंशोऽध्यायः
ललिताषष्ठीव्रतवर्णनम् योषित्सुवेषा सुभगा सर्वलोकमनोहरा
प्रातः स्नानं महानद्यां कृत्वा संगृह्य वालुकाम्
सोपवासा प्रयत्नेन देवीं तत्र प्रपूजयेत्
तत्र संस्थाप्य तां देवीं पुष्पैः संपूजयेन्नवैः
मंत्रेणानेन कुसुमैश्चंपकस्य सुशोभनैः नीलोत्पलं केतकीं च संगृह्य तगरं तथा