माघे कृष्णतिलैः स्नातः पञ्चम्यां शुक्लपक्षतः उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि
कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत्
यथा विशोकं भवनं त्वयैवादित्यसर्वदा
एवं संपूज्य षष्ठ्यां तु शक्त्या संपूजयेद्द्विजान्
संपूज्य विप्रमंत्रेण गुडपात्रसमन्वितः
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः 4.38.
अनेन विधिना सर्वमुभयोरपि पक्षयोः
व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम्
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः
यावज्जन्मसहस्राणां साग्रकोटिशतं भवेत्
यंयं प्रार्थयते कामं तंतं प्राप्नोति पुष्कलम् १५. सोपींद्रलोकमाप्नोति न दुःखी जायते क्वचित्
ये भास्करं दिनकरं करवीरपुष्पैः संपूजयंत्यभिनमंति कृतोपवासा
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकषष्ठीव्रतं नामा ष्टत्रिंशत्तमोऽध्यायः
कमलषष्ठीव्रतवर्णनम् यामुपोष्य नरः पापविमुक्तः स्वर्गभाग्भवेत्
मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुंबिने
दद्यात्प्रातः कृतस्नानो भानुर्मे प्रीयतामिति
कृत्वा कुर्यात्फलत्यागं या च स्यात्कृष्णसप्तमी
तद्वै हैमं फलं दत्त्वा सुवर्ण कमलान्वितम्
षष्ठ्योरुभयोर्महाराज यावत्संवत्सरं ततः
भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत्
व्रतांते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः 4.39.
यथा फलकरो मासस्त्वद्भक्तानां सदा रवे
इमामनंतफलदां फलषष्ठीं करोति यः
सुरापानादिकं किञ्चिद्यदत्रामुत्र वा कृतम्
भूतान्भव्यांश्च पुरुषांस्तारयेदेकविंशतिम्
हैमं फलं सकमलं कलशं सिताया षष्ठीमुपोष्य विधिवद्द्विजपुंगवाय
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलषष्ठीव्रतं नामैकोनचत्वारिंशत्तमोऽध्यायः
मंदारषष्ठीव्रतवर्णनम् सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम्