देवान्पितॄंश्च संतर्प्य ततो देवगृहं व्रजेत्
चपलायै नमः पादौ चंचलायै च जानुनी
स्तनौ मन्मथवासिन्यै ललितायै भुजद्वयम्
नमः श्रियै शिरः पूज्य दद्यान्नैवेद्यमादरात्
ततः सुवासिनी पूज्या कुसुमैः कुंकुमेन च
ततस्तु तंडुलप्रस्थं घृतपात्रेण संयुतम्
निर्वर्त्य तदशेषेण ततो भुञ्जीत वाग्यतः
श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा मासानुमास राजेन्द्र प्रीयतामिति कीर्तयेत्
ततश्च द्वादशे मासि संप्राप्ते पंचमे दिने ।। 4.37.
शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम्
सप्तधान्यसमोपेतां रसधातुसमन्विताम्
दद्यात्संपूज्य विधिवद्ब्राह्मणाय कुटुम्बिने सोपस्करां सवत्सां च धेनुं दत्त्वा क्षमापयेत्
क्षीराब्धिमथनोद्भूते विष्णोर्वक्षःस्थलालये
ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः
एवं यः कुरुते पार्थ भक्त्या श्रीपञ्चमीव्रतम्
नारी वा कुरुते या तु प्राप्यानुज्ञां स्वभर्तृतः
श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्यभृगोस्तनूजाम्
विशोकषष्ठीव्रतवर्णनम् सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम्
श्रुतं मया पूज्यमानो भानुः सर्वं प्रयच्छति
विशोक षष्ठीमतुलां वक्ष्यामि मनुजोत्तम
माघे कृष्णतिलैः स्नातः पञ्चम्यां शुक्लपक्षतः उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि
कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत्
यथा विशोकं भवनं त्वयैवादित्यसर्वदा
एवं संपूज्य षष्ठ्यां तु शक्त्या संपूजयेद्द्विजान्
संपूज्य विप्रमंत्रेण गुडपात्रसमन्वितः
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः 4.38.
अनेन विधिना सर्वमुभयोरपि पक्षयोः
व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम्
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः
यावज्जन्मसहस्राणां साग्रकोटिशतं भवेत्