तया विलोकिताः सर्वे दैत्यदानवसत्तमाः
विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसंभवा
किं च राजसभावेन शक्रेणैतत्कृतं यतः
तमसावृतचित्तैस्तु संचीर्णं दैत्यदानवैः
एवं सश्रीकमभवत्सदेवासुरमानुषम्
प्रारभ्यते पार्यते च सर्वं वद यदूत्तम
उपवासस्य नियमं कुर्यादाशु सुहृद्धृदि
स्वर्णरौप्यारकूटोत्था ताम्रमृत्काष्ठजाथ वा
पद्महस्तां पद्मवर्णां पद्मां पद्मदलेक्षणाम् 4.37.
ततो यामत्रये जाते निम्नगायां गृहेऽथ वा
देवान्पितॄंश्च संतर्प्य ततो देवगृहं व्रजेत्
चपलायै नमः पादौ चंचलायै च जानुनी
स्तनौ मन्मथवासिन्यै ललितायै भुजद्वयम्
नमः श्रियै शिरः पूज्य दद्यान्नैवेद्यमादरात्
ततः सुवासिनी पूज्या कुसुमैः कुंकुमेन च
ततस्तु तंडुलप्रस्थं घृतपात्रेण संयुतम्
निर्वर्त्य तदशेषेण ततो भुञ्जीत वाग्यतः
श्रीर्लक्ष्मीः कमला संपदुमा नारायणी तदा मासानुमास राजेन्द्र प्रीयतामिति कीर्तयेत्
ततश्च द्वादशे मासि संप्राप्ते पंचमे दिने ।। 4.37.
शय्यायां स्थापयेल्लक्ष्मीं सर्वोपस्करसंयुताम्
सप्तधान्यसमोपेतां रसधातुसमन्विताम्
दद्यात्संपूज्य विधिवद्ब्राह्मणाय कुटुम्बिने सोपस्करां सवत्सां च धेनुं दत्त्वा क्षमापयेत्
क्षीराब्धिमथनोद्भूते विष्णोर्वक्षःस्थलालये
ततः सुवासिनीः पूज्य वस्त्रैराभरणैः शुभैः
एवं यः कुरुते पार्थ भक्त्या श्रीपञ्चमीव्रतम्
नारी वा कुरुते या तु प्राप्यानुज्ञां स्वभर्तृतः
श्रीपञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या समाचरति पूज्यभृगोस्तनूजाम्
विशोकषष्ठीव्रतवर्णनम् सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम्
श्रुतं मया पूज्यमानो भानुः सर्वं प्रयच्छति
विशोक षष्ठीमतुलां वक्ष्यामि मनुजोत्तम