जपहोमनमस्कारैः संस्कारैर्वा पृथग्विधैः
वासुदेवाय सा दत्ता मुनिना मानवृद्धये
वासुदेवोऽपि तां प्राप्य पीनोन्नतपयोधराम्
भाभासितदिगाभोगां साक्षाद्भानोः प्रभामिव रेमे सह तया राजन्बिभ्रमोद्भ्रांतचित्तया
सा च विष्णुं जगज्जिष्णुं पतिं त्रिजगतां पतिम्
हृष्टं पुष्टं जगत्सर्वमभवद्भा वितं तया
क्षेमं सुभिक्षमारोग्यमनाक्रन्दमनाकुलम्
दिवि देवा मुमुदिरे दानवा दैत्यमागताः
हृदये ब्राह्मणैर्वह्नौ भुज्यते त्रिदिवैर्हविः 4.37.१
विरोचनप्रभृतिभिर्दृष्ट्वैवं दैत्यसत्तमैः
सोमसंस्थाहविःसंस्थापाकसंख्यादिभिर्मखैः
एवं धर्मप्रधानैस्तैर्वेदवादरतात्मभि
लक्ष्मीविलासप्रभवो देवानामभवन्मदः
सत्यशौचविहीनांस्तान्देवान्संत्यज्य चञ्चलान्
लक्ष्म्या भावितदेहैस्तैः पुनरुद्धतमानसैः
वयं वेदा वयं यज्ञा वयं विद्या वय जगत्
अहंकारविमूढांस्ताञ्ज्ञात्वा दानवसत्तमान्
क्षीराब्धिमध्यगतया लक्ष्म्या क्षीणार्थसंचयम्
गतश्रीकमथात्मानं मत्वा शंबरसूदनः 4.37.
येन संप्राप्यते लक्ष्मीर्लब्धा न चलते पुनः
न सा श्रीत्यभिमन्तव्या कन्या सा पाल्यते गृहे
शक्रस्यैतद्वचः श्रुत्वा बृहस्पतिरुदारधीः
यत्पुरा कस्यचित्प्रोक्तं व्रतानामुत्तमं व्रतम्
तच्छ्रुत्वा कर्तुमारब्धं सुरेशेन सुरैस्तथा
सिद्धैः प्रसिद्धचरितैर्विष्णुना प्रभविष्णुना
कैश्चित्सात्त्विकभावेन राजसेनापरैरपि
व्रते समाप्ते भूयिष्ठे निष्ठया परया प्रभो
निर्मथ्य भुजवीर्येण सागरं सरितां पतिम्
इत्येवं समयं कृत्वा ममंथुर्वरुणालयम् 4.37.
मथ्यमानजलाज्जातश्चन्द्रः शीतांशुरुज्ज्वलः