पूर्वं मधुरमश्नीयात्स्वेच्छया तदनंत रम्
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः
इह चागत्य राजासौ सर्वराजवरो भवेत्
पञ्चजन्मन्यसौ राजा द्वापरेद्वापरे भवेत् तस्मात्पूज्याश्च नागाश्च घृतक्षीरादिना सदा
भवेत्किं तस्य दष्टस्य विस्तराद्ब्रूहि मां हरे
अधो गत्वा भवेत्सर्पो निर्विषो नात्र संशयः
स्वसा वा दुहिता भार्या किं कर्तव्यं वदस्व मे
मोक्षाय तस्य गोविन्द दानं व्रतमुपोषितम्
वर्षमेकं तु राजेन्द्र विधानं शृणु यादृशम् ।। 4.36.
मासे भाद्रपदे या तु शुक्लपक्षे महीपते
ज्ञेया द्वादश वर्षांते पञ्चम्यो भरतर्षभ
भूरिचन्द्रमयं नागमथवा कलधौतजम्
पञ्चम्यामर्चयेद्भक्त्या नागं पञ्चफणं शृणु
गन्धपुष्पैः सनैवेद्यैः पूज्य पन्नगसत्तमम्
नारायणबलिः कार्यः सर्पदष्टस्य देहिनः
वृषोत्सर्गस्तु कर्तव्यो गते संवत्सरे नृप
अनंतो वासुकिः शेषः पद्मः कम्बल एव च ४८ धृतराष्ट्रः शंखपालः कालियस्तक्षकस्तथा वत्सरांते पारणं स्यान्महाब्राह्मणभोजनम्
इतिहासविदे नागः कांचनेन कृतो नृप 4.36.
एष पारणके पार्थ विधिः प्रोक्तो विचक्षणैः
ये दन्दशूकरदनैर्दष्टाः प्राप्ता ह्यधोगतिम् दांष्ट्रिकं मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति
यश्चेदं शृणुयान्नित्यं पठेद्भक्त्या समन्वितः
यस्त्वालिख्य नरो नागान्कृ ष्णवर्णादिवर्णकैः
तस्य तुष्टिं समायांति पन्नगास्तक्षकादयः
तस्मात्सर्वप्रयत्नेन नागान्संपूजयेद्बुधः
कृत्वा कुशमयान्नागानिंद्राण्या सह पूजयेत्
गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा
पूजयेत्कुरुशार्दूल तस्य शेषादयो नृप स शांतिलोकमासाद्य मोदते शाश्वतीः समाः
इत्येतत्कथितं वीर पञ्चमीव्रतमुत्तमम् 4.36.
( ॐ कुरुकुल्ले हुं फट्स्वाहा ) भक्तेन भक्तिसहिताः शतपञ्चमीषु ये पूजयंति भुजगान्कुसुमोपहारैः
श्रीपञ्चमीव्रतवर्णनम् दानेन तपसा वापि व्रतेन नियमेन वा