स्वर्गं गतास्तु ते सर्वे कस्य पुण्याधिकं मतम्
मरणं किंकरस्यैव योग्यं भूपतिहेतवे
दत्ता यत्किंकरेणैव सुंदरी नृपहेतवे
जित्वा कामं तथा पाल्यं धर्मं तस्मान्नृपेऽधिकम्
शृणु भूप महाभाग कथां तव मनोरमाम्
उज्जयिन्यां महाभाग महासेनो नृपोऽभवेत्
गुणाकरस्तस्य सुतो मद्यमांसपरायणः
बांधवैः स परित्यक्तो बभ्राम वसुधातले
कपर्दी नाम तं योगी कपालान्नैरपूजयत्
तदातिथ्यं तदर्थं स यक्षिणीं समुपाह्वयत्
प्रातः काले तु संप्राप्ते कैलासं यक्षिणी गता
कपर्दी प्रददौ तस्मै विद्यां यक्षिणिकर्षिणीम्
स जजाप शुभं मन्त्रं न प्राप्ता कामचारिणी
प्राप्तवान्पितरौ नत्वा स्वगेहे निवसन्निशि ।। 3.2.17.
प्रतिबोधिवनं प्राप्तस्तच्छिष्यत्वमुपाययौ
न प्राप्ता योगिनी देवी तदा चिन्तातुरो ऽभवत्
पुनराह कथं देवी न प्राप्ता यक्षिणी प्रिया
त्रिविधं कर्म भो विप्र सिद्ध्यर्थे साधकाय वै
सुन्दरांगकृतं ज्ञेयं पुनर्वाक्कायसंभवम्
परत्र च भुवर्लोके पिण्डदेहकृतं स्मृतम्
मनोवाक्कायसंभूतमिह जन्मनि सिद्धिदम्
तस्मात्कर्तव्यमेवेह त्रिविधं कर्म साधकैः अतोऽन्यजन्मनि प्राप्तो यक्षत्वं तत्परो द्विजः
इत्युक्त्वा स तु वैतालः प्रसन्नवदनोऽभवत्
साधु साध्विति तं प्रोच्य सद्वाक्यैः समपूजयत् 3.2.17.
सुदक्षो नाम नृपतिर्वसन्कंबलके पुरे
न्यायवान्धर्मवाञ्छूरो दाता शिवपरायणः
तनया सुन्दरी तस्य नाम्ना धनवती शुभा
कियता चैव कालेन मोहिनी तत्सुताभवत्
तदा धनवती रंडा निधना पितुरंतिके
न्यायशर्मा द्विजः कश्चिद्ब्रह्मस्वस्यापहारकः