आहूय पुत्रान् प्रोवाच बाला भूत्वा हयोत्तमे
प्रोचुस्ते जिह्मबुद्धिं तां नागाः कद्रूं विगृह्य च अशपद्रुषिता कद्रूः पावको वः प्रधक्ष्यति
गते बहुतिथे काले पांडवो जनमेजयः
तस्मिन्सत्रे च तिग्मांशुः पावको भक्षयिष्यति
मात्रा शप्तस्तदा नागः कर्तव्यं नान्वपद्यत
वासुकिं दुःखितं दृष्ट्वा ब्रह्मा प्रोवाच सांत्वयन्
यायावरकुले जातो जरत्कारुरिति द्विजः
भगिनीं च जरत्कारुं तस्य त्वं प्रतिदास्यसि
स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् 4.36.
तदियं भगिनी नाग रूपौदार्यगुणान्विता
यदासौ प्रार्थ्यतेऽरण्ये यत्किञ्चित्प्रवदिष्यति
पितामहवचः श्रुत्वा वासुकिं प्रणिपत्य च
तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः
अप्लवे तु निमग्नानां घोरे यज्ञाग्निसागरे
श्रुत्वा स चाग्निराजानमृत्विजस्तदनंतरम्
पञ्चम्यां तच्च भविता ब्रह्मा प्रोवाच लेलिहान्
नागानां हर्षजननी दत्ता वै ब्रह्मणा पुरा
विसृज्य नागाः प्रीयंतां ये केचित्पृथिवीतले ये नदीषु महानागा ये सरःस्वभिगामिनः
ये वापीषु तडागेषु तेषु सर्वेषु वै नमः ।।4.36.
नागान्विप्रांश्च संपूज्य विसृज्य च यथार्थतः
पूर्वं मधुरमश्नीयात्स्वेच्छया तदनंत रम्
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः
इह चागत्य राजासौ सर्वराजवरो भवेत्
पञ्चजन्मन्यसौ राजा द्वापरेद्वापरे भवेत् तस्मात्पूज्याश्च नागाश्च घृतक्षीरादिना सदा
भवेत्किं तस्य दष्टस्य विस्तराद्ब्रूहि मां हरे
अधो गत्वा भवेत्सर्पो निर्विषो नात्र संशयः
स्वसा वा दुहिता भार्या किं कर्तव्यं वदस्व मे
मोक्षाय तस्य गोविन्द दानं व्रतमुपोषितम्
वर्षमेकं तु राजेन्द्र विधानं शृणु यादृशम् ।। 4.36.
मासे भाद्रपदे या तु शुक्लपक्षे महीपते