संध्यायां च ततो मौनं तद्व्रत तु समाचरेत्
समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः
देव्यै वितानं घंटां च सितनेत्रं पटान्वितम्
तथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम्
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्
सरस्वत्याः प्रसादेन व्यासवत्तु कविर्भवेत् ब्रह्मलोके वसेत्तावद्यावत्कल्पायुतत्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत्
संवत्सरं व्रतवरेण सरस्वतीं ये संपूजयंति जगतो जननीं जनित्रीम् 4.35.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सारस्वतव्रतनिरूपणं नाम पंचत्रिंशत्तमोऽध्यायः
नागपञ्चमीव्रतवर्णनम् पञ्चम्यां किल नागानां भवतीत्युत्सवो महान्
वासुकिस्तक्षकश्चैव कालिको माणिभद्रकः एते प्रयच्छंत्यभयं प्राणिनां प्राणजीविनाम्
पञ्चम्यां स्नपयंतीह नागान्क्षी रेण ये नराः
शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम्
कथं वा तस्य शापस्य विनाशोऽ भूज्जनार्दन
तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम्
अश्वरत्नमिदं श्वेतं पश्यपश्यामृतोद्भवम्
कथं त्वं वीक्षसे कृष्णं विनतोवाच तां स्वसाम्
वीक्षेऽहमेकनयना कृष्णबाल समन्वितम्
न चेद्दर्शयसे कद्रु मम दासी भविष्यसि ।। 4.36.
एवं ते विपणं कृत्वा गते क्रोधसमन्विते
आहूय पुत्रान् प्रोवाच बाला भूत्वा हयोत्तमे
प्रोचुस्ते जिह्मबुद्धिं तां नागाः कद्रूं विगृह्य च अशपद्रुषिता कद्रूः पावको वः प्रधक्ष्यति
गते बहुतिथे काले पांडवो जनमेजयः
तस्मिन्सत्रे च तिग्मांशुः पावको भक्षयिष्यति
मात्रा शप्तस्तदा नागः कर्तव्यं नान्वपद्यत
वासुकिं दुःखितं दृष्ट्वा ब्रह्मा प्रोवाच सांत्वयन्
यायावरकुले जातो जरत्कारुरिति द्विजः
भगिनीं च जरत्कारुं तस्य त्वं प्रतिदास्यसि
स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् 4.36.
तदियं भगिनी नाग रूपौदार्यगुणान्विता