हयमेधस्य विघ्ने तु संजाते सगरः पुरा
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा
मया समुद्रं विशतां एतदेव व्रतं कृतम् 4.33.
अन्यैरपि महीपालैरेतदेव कृतं पुरा
अनेन कृतमात्रेण सर्वविप्रैः प्रमुच्यते
विघ्नानि तस्य न भवंति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविघातकानि
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम त्रयस्त्रिंशतमोऽध्यायः
शान्तिव्रतवर्णनम् येन चीर्णेन शांतिः स्यात्सर्वदा गृहमेधिनाम्
पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव
नक्तं देवं च संपूज्य हरिं शेषोपरिस्थितम्
उदरं तक्षकायेति उरः कर्कोटकाय च
शंखपालाय वक्षस्तु कुलिकायेति वै शिरः
क्षीरेण स्नपनं कुर्याद्धरिमुद्दिश्य वाग्यतः
एवं संवत्सरस्यांते कुर्याद्ब्राह्मणभोजनम्
गां सवत्सां वस्त्रयुगं कांस्यपात्रं सपायसम्
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिप
शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यज्ञपुरुषं पतगेंद्रनाथम् 4.34.
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शांतिव्रतं नाम चतुस्त्रिंशत्तमोऽध्यायः
सारस्वतव्रतवर्णनम् तथैव जनसौभाग्यमतिविद्यासु कौशलम्
अभेदश्चापि दंपत्योस्तथा बंधुजनेन च
यस्य संकीर्तनादेव तुष्यतीह सरस्वती
योऽयं भक्तः पुमान्कुर्यादेतद्व्रतमनुत्तमम्
अथ चादित्यवारेण ग्रहताराबलेन च
शुक्लवस्त्राणि दद्याच्च सहिरण्यानि शक्तितः एभिर्मंत्रपदैः पश्चात्पूर्वं कृत्वा कृताञ्जलिः
यथा तु देवि भगवान्ब्रह्मा लोकपिता महः
वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यत्
लक्ष्मीर्मेधा वरारिष्टिर्गोरी तुष्टिः प्रभा मतिः
एवं संपूज्य गायत्रीं वीणाक्षमणिधारिणीम् 4.35.
मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्मवित्
तिलैश्च तंडुलप्रस्थं घृतपात्रेण संयुतम्