भविष्यपुराणम्
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा
वैनायकं विनयसत्त्ववतां नराणां स्नानं प्रशस्तमिह विघ्नविनाशकारि 4.32.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्नपनचतुर्थीव्रतं नाम द्वात्रिंशत्तमोऽध्यायः
विनायकचतुर्थीव्रतवर्णनम् येन सम्यकृतेनेह न विघ्नमुपजायते
चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम्
तदेव वह्नौ होतव्यं ब्राह्मणाय च तद्भवेत्
शूराय वीराय गजाननाय लंबोदरायैकरदाय चैव
चातुर्मास्यां व्रतं चैव कृत्वेत्थं पञ्चमे तथा
ताम्रपात्रैः पायसभृतैश्चतुर्भिः सहितं नृप
मृन्मयान्यपि पात्राणि वित्तहीनस्तु कारयेत् इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते
हयमेधस्य विघ्ने तु संजाते सगरः पुरा
तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा
मया समुद्रं विशतां एतदेव व्रतं कृतम् 4.33.
अन्यैरपि महीपालैरेतदेव कृतं पुरा
अनेन कृतमात्रेण सर्वविप्रैः प्रमुच्यते
विघ्नानि तस्य न भवंति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविघातकानि
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम त्रयस्त्रिंशतमोऽध्यायः
शान्तिव्रतवर्णनम् येन चीर्णेन शांतिः स्यात्सर्वदा गृहमेधिनाम्
पञ्चम्यां शुक्लपक्षस्य कार्तिके मासि पार्थिव
नक्तं देवं च संपूज्य हरिं शेषोपरिस्थितम्
उदरं तक्षकायेति उरः कर्कोटकाय च
शंखपालाय वक्षस्तु कुलिकायेति वै शिरः
क्षीरेण स्नपनं कुर्याद्धरिमुद्दिश्य वाग्यतः
एवं संवत्सरस्यांते कुर्याद्ब्राह्मणभोजनम्
गां सवत्सां वस्त्रयुगं कांस्यपात्रं सपायसम्
एवं यः कुरुते भक्त्या व्रतमेतन्नराधिप
शेषाहिभोगशयनस्थमयोगसूतिं संपूज्य यज्ञपुरुषं पतगेंद्रनाथम् 4.34.
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शांतिव्रतं नाम चतुस्त्रिंशत्तमोऽध्यायः
सारस्वतव्रतवर्णनम् तथैव जनसौभाग्यमतिविद्यासु कौशलम्
अभेदश्चापि दंपत्योस्तथा बंधुजनेन च