आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् 4.32.
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा
पुष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप
चत्वार ऋग्यजुः सामाथर्वणप्रवणास्ततः
कृष्णस्य पितरं चाथ अवतारं सितं तथा विधुंतुदं बाहुलेयं नंदकस्य च धारिणम्
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात्
यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात्
सहस्राक्षं शतधारमृषिभिः पावनं कृतम्
ॐ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः
यत्ते केशेषु दौर्भाग्यं सीमंते यच्च मूर्द्धनि
स्नातस्य सार्षपं तैलं स्रुवेणौदुंबरेण तु 4.32.
मितश्च सम्मितश्चैव तथा शालकटंकटो
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः
कृताकृतांस्तंडुलांश्च पल लौदनमेव च
पुष्पान्वितं सुगन्धं च सुरां च त्रिविधामपि
दध्यन्नं पायसं चैव गुडवेष्टितमोदकम् दूर्वासर्षप पुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्
रूपंदेहि जयं देहि भगं भवति देहि मे
प्रबलं कुरु मे देवि बलविख्यातिसम्भवम् भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा
वैनायकं विनयसत्त्ववतां नराणां स्नानं प्रशस्तमिह विघ्नविनाशकारि 4.32.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकस्नपनचतुर्थीव्रतं नाम द्वात्रिंशत्तमोऽध्यायः
विनायकचतुर्थीव्रतवर्णनम् येन सम्यकृतेनेह न विघ्नमुपजायते
चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम्
तदेव वह्नौ होतव्यं ब्राह्मणाय च तद्भवेत्
शूराय वीराय गजाननाय लंबोदरायैकरदाय चैव
चातुर्मास्यां व्रतं चैव कृत्वेत्थं पञ्चमे तथा
ताम्रपात्रैः पायसभृतैश्चतुर्भिः सहितं नृप
मृन्मयान्यपि पात्राणि वित्तहीनस्तु कारयेत् इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते