मंगलं प्रति गृह्णामि उभयोरस्तु मंगलम्
प्रतिग्राहकमंत्रः तदा मंत्रार्चनपरः पुनरेतां समाचरेत्
आशरीरनिपाताद्वा यथोक्तफलभाग्भवेत्
अंगारकेण संयुक्तां वास्रां(वस्त्रां) तिलशराविकाम्
एवं चतुर्थीं यो भक्त्या कुजयुक्ता मुपोषयेत्
इह स्थित्वा चिरं कालं पुत्रपौत्रश्रिया वृतः
दिव्यनारीगणवृतो विमानवरमास्थितः
स तत्र रमते कालं देवैः सह सुरेशवत्
इह चागत्य राजासौ कुले महति जायते
नारी च रूपसंपन्ना सुभगा जातिसंयुता 4.31.
रमित्वा सुचिरं कालं पुनः स्वर्गगतिं लभेत् दुर्ल्लभो यो मनुष्याणां देवानां भद्रमस्तु ते
अंगारकेण सहिता तु सिता चतुर्थी शस्ता सुरार्च्चनविधौ पितृपिण्डदाने
विनायकस्नपनचतुर्थीव्रतवर्णनम् तत्केन कारणेनैतत्पृष्टो मे ब्रूहि माधव
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति
व्रजमानस्तथात्मानं मन्यते तु गतं परैः
पातकी विहीनच्छायो म्लानत्वहेतुलक्षणः
यातुधानाश्रितं यानं श्मशानस्यांतिकं नृप तैलार्द्रमात्रं स्वं देहं करवीरविभूषितम्
तेनोपसृष्टो लभते न राज्यं राजनंदनः
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् 4.32.
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा
पुष्ये च वीरनक्षत्रे तस्यैव पुरतो नृप
चत्वार ऋग्यजुः सामाथर्वणप्रवणास्ततः
कृष्णस्य पितरं चाथ अवतारं सितं तथा विधुंतुदं बाहुलेयं नंदकस्य च धारिणम्
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात्
यदाहृतं ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात्
सहस्राक्षं शतधारमृषिभिः पावनं कृतम्
ॐ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः