( इत्यश्वत्थमंत्रः) गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम्
सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता
( इति गोमंत्रः) एवं मंत्रं पठन्पार्थ भक्तिभावेन भावितः
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः
प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेत्
शर्वाय शर्वपुत्राय पार्वत्या गोः सुताय च भूयोभूयोयमाहुत्या हुत्वाहुत्वा जुहोति वै
ओंकारपूर्वकैर्मंत्रैः स्वाहाकारांतयोजितैः
एभिमंत्रपदैर्भक्त्या शक्त्या वा काममेव वा
भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मंत्रविद्वशी
स्नपनं केचिदिच्छंति सगुडे ताम्रभाजने 4.31.
कृष्णागरुमयं चैव श्रीखण्डघटितं पुनः
अन्यैरालोहितैः पार्थ पुष्पैर्वस्त्रैः फलैः शुभैः
यावद्धि शक्यते चित्तं वित्तवान्भक्तिभावितः
किञ्चित्ताम्रमये पात्रे वंशजे मृन्मयेपि वा
( ॐ अंगारकाय नमः शिरसि ॐ भौमाय नमः स्कंधयोः ॐ रक्ताय नमः उरसि ॐ आराय नमः जंघयोः एषाष्टपुष्पिका गुग्गुलं घृतसंयुक्तं कृष्णागरुसमन्वितम्
होमं कुर्वीत पूर्वोक्तैर्मंत्रैर्मंगलसं ज्ञितैः
निष्पावकं भोजनं वा दद्याच्छक्त्या सदक्षिणम्
पश्चाद्भुञ्जीत मौनेन भूमिं कृत्वा तु भाजनम्
सर्वौषधिरसावासे सर्वदा सर्व दायिनि
युधिष्ठिर उवाच उपोष्या कतिमात्रा सा किमेका वद यादव ।। 4.31.
चतुर्थी च चतुर्थी च यदांगारकसंयुता वित्तहीनाः प्रतीक्षंते यावद्वित्तोपलंभनम्
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु पाण्डव दश सौवर्णिकं मुख्यं दशार्द्धार्द्धमथापि वा
विंशत्पलानि पात्राणि विंशत्यर्द्धपलानि च
प्रतिष्ठाप्य कुजं मंत्रैर्वस्त्रैः संपरिवेष्टितम्
तत्र संपूजयेद्देवं पूर्वमंत्रैर्विधानतः
वस्त्रैः प्रावरणैर्यानैः शय्योपानद्वरासनैः
ततो विप्र परीक्षेत व्रतशौचसमन्वितम्
अंगारकविधिं यश्च सम्यग्जानाति शास्त्रतः
संपूज्य वस्त्राभरणैस्तस्मै देयः कुजोत्तमः
वित्तसारेण तुष्य त्वं मम भौम भवोद्भव ब्राह्मणश्चाप्यसौ विद्वान्मंत्रमेतमुदाहरेत् ।। 4.31.