इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृती याव्रतवर्णनं नाम त्रिंशत्तमोऽध्यायः
अङ्गारकचतुर्थीव्रतवर्णनम् पापापहं बहुफलं सुकरं सूपवासकम्
ऋद्धिबुद्धिकरं स्वर्ग्यं यशस्यं सर्वकामदम्
शृणु पार्थ परं गुह्यं यन्मया कथितं न च
शिवयोरतिसंहर्षाद्रक्तबिंदुश्च्युतः क्षितौ
तस्माज्जातः कुमारोऽसौ रक्तो रक्तसमुद्भवः
शिवांगाद्रभसा जात स्तेनांगारक उच्यते
सौभाग्यारोग्यकृद्यस्मात्तस्मादंगारकः स्मृतः
तं पूजयति यत्नेन नारी वाऽनन्यमानसा रूपं सौभाग्यसंपन्नं नरनारीमनोहरम्
युधिष्ठिर उवाच सहोममंत्रसंस्थानं साधिवासविधानतः
श्रीकृष्ण उवाच स्नानार्थं मृत्तिकां मंत्रैर्गृह्णीयादंभसि स्थितः ।।4.31.१
इमं मंत्रं पठन्पार्थ आदित्याय प्रदर्शयेत्
तां मृदं शिरसि प्रार्थ्य पूर्वं दत्त्वांगसंधिषु
त्वमापो योनिः सर्वेषां दैत्यदानवरक्षसाम्
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च
ध्यायन्ध्वनिमिमं मंत्रं ततः स्नानं समाचरेत् न जल्पेच्च न वीक्षेत क्वचित्पापिष्ठमेव हि
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा मां च मंत्रेण मंत्रवित्
त्वं दूर्वेऽमृतजन्मासि सर्वदेवैश्च वंदिता
( इति दूर्वामंत्रः शमी शमय तत्पापं यन्मया दुरनुष्ठि तम्
( इति शमीमंत्रः) अश्वत्थमंगं लभते मंत्रमेतं निबोध मे शत्रूणां च समुत्थानमश्वत्थ शमयस्व मे ।। 4.31.
( इत्यश्वत्थमंत्रः) गां दद्यात्तु ततो देवीं सवत्सां सप्रदक्षिणाम्
सर्वदेवमये देवि दैवतैस्त्वं सुपूजिता
( इति गोमंत्रः) एवं मंत्रं पठन्पार्थ भक्तिभावेन भावितः
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः
प्रक्षाल्य च मृदा पादौ आहिताऽग्निगृहं विशेत्
शर्वाय शर्वपुत्राय पार्वत्या गोः सुताय च भूयोभूयोयमाहुत्या हुत्वाहुत्वा जुहोति वै
ओंकारपूर्वकैर्मंत्रैः स्वाहाकारांतयोजितैः
एभिमंत्रपदैर्भक्त्या शक्त्या वा काममेव वा
भक्ष्यैर्नानाविधैरन्यैः शक्त्या वा मंत्रविद्वशी
स्नपनं केचिदिच्छंति सगुडे ताम्रभाजने 4.31.